________________
स्याद्वादमञ्जरी ।
तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत्परिज्ञानाभावात् तथाचार्ष "जे* रागं जोगइ से सबं जाग जे सबं जायत्र से गं जाणहू” ।
टै
तथा ।
एको भावः सर्वथा येन दृष्टः
सर्वे भावा सर्वथा तेन दृष्टाः । सवें भाव सर्वथा येन दृष्टा: एको भावः सर्वथा तेन दृष्टः ॥ २ ॥ इति ननु तर्हि अवाध्यसिद्धान्तमित्यपार्थकं यथोक्तगुणयुतस्याव्यभिचारिवचन तदुक्तसिद्धोन्तस्य बाधायोगात् न अभिप्रायापरिज्ञानान्निर्दोषपुरुषप्रणीत एव श्रबाध्यः सिद्धान्तो नापरेऽपौरुषेयाद्या असम्भवादिदोषाप्रातत्वात् इति ज्ञापनार्थं श्रात्ममावतारकमुकान्तकृत्केवल्यादिरूप के वलिनो यथोक्त सिद्धान्तप्रणयनासमर्थस्य व्यवच्छेदार्थं वा विशेषणमेतत् अन्यस्त्वाह अमर्त्य पूज्यमिति न वाच्यं यावता यथोद्दिष्टगुणगरिवस्य विभुवनविभोर मर्त्यपूज्यत्वं न व्यभिचरतीति सत्यं लौकिकानां हि अमर्त्या एव पूज्यतया प्रसिद्धास्तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति एवं पूर्वार्द्ध चत्वारोऽतिशय उक्ता अनन्तविज्ञानत्वं च सामान्य केवलिनामप्यवश्ये भावोत्यतस्तद्व्यवच्छेदाय श्री
यो रागं जानाति स सर्वं जानाति यः सर्वं जानाति स रागं जानाति इतिच्छाया ।