________________
सात
स्थाबादमञ्जरी। २१७ तदवत्तुं शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ __ इदं प्रत्यक्षोपलभ्यमानं जगदिश्वमुपचाराज जगही जनो हतपरैर्हता अधमा ये परे तीर्थान्तरोया हतपर तैर्मायाकारैरिवैन्द्रजालिकैरिव शांवरीयप्रयोगनिपुणैरिवेति यावत् अन्वतमसे निविडान्धकारे हा इति खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः अन्धं करोतीत्यस्वयति अन्धयतीत्यन्धं तच्च तत्तमश्चेत्यन्वतमसं "समवान्धतमस" इत्यप्रत्ययस्तस्मिन्नन्धतममे कथंभूतेऽन्वतमस इति द्रव्यान्धकारव्यवच्छेदार्थमाह तत्वातत्वव्यतिकरकराले तत्वं चातत्वं च तत्वातत्वे तयोव्यंतिकरो व्यतिकोणता खभावविनिमयस्तत्वातत्वव्यतिकरस्तेनकराले भयंकरे यत्नान्धतमसे तत्वे ऽतत्वाभिनिवेशोऽतत्वे च तत्वाभिनिवेश इत्येवं रूपो व्यतिकरः संजायत इत्यर्थः अनेन च विशेषणेन परमार्थतो मिथ्यात्वं मोहनौयमेवान्धतमसं तस्यैवेदृक्षलक्षणत्त्वात् तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादः
अदेवे देवबुट्विर्या गुरुधौरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्दिपर्ययात् ॥
२८
..