________________
स्थाहादमञ्जरौ। २१३ इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी या गगाधरकर्तृकत्वेऽपि समयस्यार्थापेक्षया भगवत्कर्तृकत्वाहाच्यवाकभावो न विरुध्यते " अच्छं भासद आरहा मुत्तं गंथन्ति गणहराणि उगमि" ति वचनात् पथ वा उत्पादव्ययधौव्यप्रपञ्चः समयस्तेषां च भगवता सानान्माटकापदरूपतयाभिधानात् तथा चार्षम् “उप्पन्ने वा विगमे वा धुवेति वा" इत्यदोषः मत्सरित्वाभावमेव विशेषणदारेण समर्थयति नयानशेषानविशेषमिच्छन् इति अशेषान् समस्तान् नयान् नैगमादोन अविशेषं निर्विशेषं यथा भवत्येवमिच्छन्नाकाझन् नयात्मकत्वादनकान्तवादस्य यथा विशकलितानां मुक्तामणीनामेंकसूत्रानुस्यूतानां हारव्यपदेश एवं पृथगभिसन्धीनां नयानां स्याहादलक्षणैकसूत्रपोतानां श्रुताख्यपमाणव्यपदेश इति ननु प्रत्येक नयानां विरुदत्वे कथं समदितानां निर्विरोधिता उच्यते यथा हि समोचीनं मध्यस्थं न्यायनिर्णेतारमामाद्य परस्परं विवदमाना अपि वादिनो विवादाहिरमन्ति एवं नया अन्योन्यं वैरायमाणा अपि सार्वजं शासनमुपेत्य स्याच्छब्दपयोगोपशमितविपतिपत्तयः सन्तः परस्परमत्यन्तसुहृद्यावतिष्ठन्ते एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव नयरूपत्वाद्दर्शनानां न च वाच्यं तहिं भगवत्तमयम्हषु कथं नोपलभ्यत इति समुद्रस्य सर्वसरिन्मयत्वे