________________
स्याहादमञ्जरी। दिप्रत्यक्षत्त्वाद्र्पादिवदिति सिद्धः पौगलिकात्वात्मामान्यविशेषात्मकः शब्द इति न च वाच्यम् आत्मन्यपौगालिकेऽपि कथं सामान्यविशेषात्मकत्वं निविवादमनुभूयत इति यतः संसार्यात्मनः पतिपदेशमनन्तानन्तकर्मपरमाणुभिः सह वह्नितापितघन-कुट्टितनिर्विभागपिण्डीभूतसूचीकलापवल्लोलौभावमापन्नस्य कथं चित्पौद्भलिकत्त्वाभ्यनुज्ञानादिति यदापि स्याहादवादिनां पौगलिकमपोद्गलिकं च सव वस्तु सामान्यविशेषात्मक तथाप्यपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मकत्वमर्वाग्दृशां न तथा पतौतिविषयमायातीति पौद्गलिकेषु पुनस्तसाध्यमानं तेषां सुश्रद्धानमित्यपस्तुतमपि शब्दस्य पौद्गलिकत्त्वमत्र सामान्यविशषात्मकत्वसाधनायोपन्यस्तमिति अत्रापि नित्यशब्दवादिसंमत: शब्दैकत्व कान्तो ऽनित्यशब्दवादाभिमतः शब्दानैकत्व कान्तश्च प्रागदर्शितदिशा प्रतिक्षप्यः अथ वा वाच्यस्य घटादेरर्थ स्य सामान्य विशेषात्मकावे तहाचकस्य ध्वनेरपि तत्त्वं शब्दार्थ योः कथंचित्तादात्म्याभ्युपगमात् यदाइ भद्रवाहस्वामिपादाः । अभिहाणं अभियाद होइ भिन्नं अभिन्नं च । खुरअग्गिमीय गुच्चारणं मिजम्हादु वयणसवणाणं ॥ न विछेदुन विदाहो न पूरणं तेन भिन्नं तु । जम्हायमोयगुच्चारणं मितच्छेव यच्चउहोई ॥