SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अधिकारः ६] समयसारः। २९९ इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो धर्मः । अज्ञानमयो भावस्तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी अज्ञानमयस्य भावस्य इच्छाया अभावात् अधर्म नेच्छति तेन ज्ञानिनः अधर्मपरिग्रहो नास्ति, ज्ञानमयस्सैकस्य ज्ञायकभावस्य भावादधर्मस्य केवलं ज्ञायक एवायं स्यात् । एवमेव चाधर्मपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यप्यूह्यानि ॥२११॥ अपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदे असणं । अपरिग्गहो दु असणस्स जाणगो तेण सो होदि ।। २१२ ॥ अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छति अशनं । अपरिग्रहस्त्वशनस्य ज्ञायकस्तेन स भवति ॥ २१२ ॥ णाणी य णिच्छदि अहम्मं अपरिग्रहो भणितः। स कः ? अनिच्छ:-तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु इच्छा कांक्षा नास्ति । तेन कारणेन तत्त्वज्ञानी विषयकषायरूपं अधर्म पापं नेच्छति । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि तत एव कारणात्-. विषयकषायरूपस्याधर्मस्याऽपरिग्रहः सन् पापमिदं मम स्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् दर्पणे बिम्बस्येव ज्ञायक एव भवति । एवमेव च, अधर्मपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसंज्ञानि सप्तदशसूत्राणि व्याख्येयानि तेनैव प्रकारेण शुभाशुभसंकल्पविकल्परहितानंतज्ञानादिगुणवरूपशुद्धात्मनः प्रतिपक्षभूतानि शेषाण्यप्यसंख्येयलोकप्रमितानि विभावपरिणामस्थानानि वर्जनीयानि ॥२११॥ कहा है इसीसे [ अधर्म न इच्छति ] अधर्मकी इच्छा नहीं करता [सः] वह ज्ञानी [ अधर्मस्य ] अधर्मका [ अपरिग्रहः ] परिग्रह नहीं रखता [तेन ] इसलिये वह [ज्ञायकः भवति च ] उस अधर्मका ज्ञायक ही है ॥ टीका-इच्छा है वह परिग्रह है जिसके इच्छा नहीं है। उसके परिग्रह नहीं है । और इच्छा है वह अज्ञानमयभाव है वह भाव ज्ञानीके नहीं है । ज्ञानीके तो ज्ञानमय ही भाव है इसलिये ज्ञानी अज्ञानमय भावरूप इच्छाके अभावसे अधर्मकी नहीं इच्छा करता इस कारण ज्ञानीके अधर्मका परिग्रह नहीं है । ज्ञानमय जो एक ज्ञायकभाव उसके सद्भावसे यह ज्ञानी अधर्मका केवल ज्ञायक ही है । इसीतरह गाथामें अधर्मपदके पलटनेसे अधर्मकी जगह राग द्वेष क्रोध मान माया लोभ कर्म नोकर्म मन वचन काय श्रोत्र चक्षु घ्राण रसन स्पर्शन-ये सोलह पद रख सोलह गाथा सूत्रोंकर व्याख्यान करना । और इसी उपदेशसे अन्यभी विचार लेना ॥ २११ ॥ १'भणिदो असणं तु णिच्छदे णाणी' तात्पर्यवत्तौ पाठोऽयं ।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy