________________
१९५
समयसारः ।
तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः । शोभनोऽशोभनो वा कर्तव्यो विरतिभावो वा ॥ १३४ ॥ ॥..... एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु । परिणमतेऽष्टविधं ज्ञानावरणादिभावैः ॥ १३५ ॥ तत्खलु जीवनिबद्धं कार्मणवर्गणागतं यदा । तदा तु भवति हेतुर्जीवः परिणामभावानां ॥ १३६ ॥
अतत्त्वोपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः । मिथ्यात्वा संयमकषाययोगोदयाः कर्महेतवस्तन्मयाश्चत्वारो भावाः । तत्त्वाश्रद्धानरूपेण ज्ञाने स्वदमानो मिथ्यात्वोदयः अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः कलुषोपयोगरूपेण ज्ञाने स्वदमानः कषायोदयः शुभाशुभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः । अथैतेषु पौनलिपूर्वोक्तप्रकारेण पुण्यपापादिसप्तपदार्थानां पीठिका रूपेण महाधिकारे कथंचित्परिणामित्वे सति ज्ञानिवो ज्ञानमयभावस्य कर्ता तथैव चाज्ञानिजीवोऽज्ञानमयस्य भावस्य कर्ता भवतीति, अज्ञानमुख्यतया गाथानवकेन षष्ठोन्तराधिकारः समाप्तः । अथ पूर्वोक्त एवाज्ञानमयभावो द्रव्यभावगतपंचप्रत्ययरूपेण पंचविधो भवति स चाज्ञानिजीवस्य शुद्धात्मैवोपादेय इत्यरोचमानस्य तमेव शुद्धात्मानं स्वसंवेदनज्ञानेनाजानतस्तमेव परमसमाधिरूपेणाभावयतश्च बंधकारणं भवतीति सप्तमांतराधिकारे समुदायपातनिका ; – मिच्छत्तस्स दु उदयं जं जीवाणं अतच्चसद्दहणं मिथ्यात्वस्यो - दयो भवति जीवानामनंतज्ञानादिचतुष्टयरूपं शुद्धात्मतत्त्वमुपादेयं विहायान्यत्र यच्छ्रद्धानं रुचिरुपादेयबुद्धिः असंजमस्स दु उओ जं जीवाणं अविरदत्तं असंयमस्य च स उदयो भवति जीवानामात्मसुखसंवित्त्यभावे सति विषयकषायेभ्यो यदनिवर्त्तनमिति । अथ-अण्णाणस्स दु उदओ जं जीवाणं अतच्चउवलद्धी अज्ञानस्योदयो भवति यत्किं भेदज्ञानं विहाय जीवानां विपरीतरूपेण परद्रव्यैकत्वेनोपलब्धिः प्रतीतिः जो दु कसाउवओगो सो जीवाणं कसाउदओ स जीवानां कषायोदयो भवति यः शांतात्मोपलब्धिलक्षणं शुद्धोपयोगं विहाय क्रोधादिकषायरूप उपयोगः परिणाम इति । अथ तं जाण जोगउदयं जं जीवाणं तु चिउच्छाहो तं योगोदयं जानीहि त्वं हे शिष्य जीवानां मनोवचनकायवर्गणाधारेण वीर्यंतरायक्षयोपशमजनितः कर्मादान हेतुरात्मप्रदेश परिस्पंदलक्षणः प्रयत्नरूपेण अज्ञानका [ उदयः ] उदय है [ तु ] और जो [ जीवस्य ] जीवके [ अश्रद्दधानत्वं ] अतत्त्वका श्रद्धान है वह [ मिध्यात्वस्य ] मिथ्यात्वका [ उदयः ] उदय है [ यत्तु ] और जो [ जीवानां ] जीवोंके [ अविरमणं ] अत्यागभाव [ भवेत् ] है [ असंयमस्य ] वह असंयमका [ उदयः ] उदय है [ तु ] और [ य: ] जो [ जीवानां ] जीवोंके [ कलुषोपयोगः ] मलिन ( जानपनेकी स्वच्छता से रहित ) उपयोग है [ सः ] वह [ कषायोदयः ] कषायका उदय है [ तु यः ] और जो