________________
समयसारः ।
१७५
सामान्यहेतुतया चत्वारः कर्त्तारः, त एव विकल्प्यमाना मिथ्यादृष्ट्या दिसयोग केवल्यं तास्त्रयोदश कर्त्तारः । अथैते पुद्गलकर्मविपाकविकल्पादत्यंतमचेतनाः संतस्त्रयोदश कर्तारः केवला एव यदि व्याप्यव्यापकभावेन किंचनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव किं जीवस्यात्रापतितं । अथायं तर्कः । पुद्गलमयमिथ्यात्वादीन् वेदयमानो जीवः स्वयमेव मिथ्यादृष्टिर्भूत्वा
दूषणं ददाति । कथमिति चेत् । यदि ते प्रत्यया एव कर्म कुर्वति तर्हि जीवो न हि वेदकस्तेषां कर्मणामित्येकं दूषणं । अथवा तेषां मते जीव एकांतेन कर्म न करोतीति द्वितीयं दूषणं । तदनंतरं शुद्धनिश्चयेन शुद्धोपादानरूपेण न च जीवप्रत्यययोरेकत्वं जैनमताभिप्रायेणेति गाथात्रयं । अथवा पूर्वोक्तप्रकारेण ये नयविभागं नेच्छति तान्प्रति पुनरपि दूषणं । कथमिति चेत् । जीवप्रत्यययोरेकांतेनैकत्वे सति जीवाभाव इत्येकं दूषणं । एकांतेन भिन्नत्वे सति संसाराभाव इति द्वितीयं दूषणमिति चतुर्थांतराधिकारे समुदायपातनिका । तद्यथा — निश्चयेन मिथ्यात्वादिपौद्गलिकप्रत्यया एव कर्म कुर्वतीति प्रतिपादयति ; — सामण्णपच्चया खलु चउरो भांति बंधकत्तारो निश्चयनयेनाभेदविवक्षायां पुद्गल एक एव कर्ता भेदविवक्षायां तु सामान्यप्रत्यया मूलप्रत्यया खलु स्फुटं चत्वारो बंधस्य कर्तारो भण्यंते सर्वज्ञैः उत्तरप्रत्ययाश्च पुनर्बहवो भवति । सामान्य कोर्थः । विवक्षाया अभावः सामान्यमिति सामान्यशब्दस्यार्थः सर्वत्र सामान्यव्याख्यानकाले ज्ञातव्य इति । मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ते चमिथ्यात्वाविरतिकषाययोगा बोद्धव्याः । अथ - - तेसिं पुणो वि य इमो भणिदो भेदो दु तेरसवियप तेषां प्रत्ययानां गुणस्थानभेदेन पुनरिमो भणितो भेदस्त्रयोदशविकल्पः केन प्रकारेण मिच्छादिट्ठी आदी जाव सजोगिस्स चरमंतं मिथ्यादृष्टिगुणस्थानादिसयोगिभट्टारकस्य चरमसमयं यावदिति । अथ एदे अचेदणा खलु पुग्गलकम्मुदयसंभवा जह्मा एते मिथ्यात्वादिभावप्रत्ययाः शुद्धनिश्चयेनाचेतनाः खलु स्फुटं । कस्मात् पुद्गलकर्मोदयसंभवा यस्मादिति । यथा स्त्रीपुरुषाभ्यां समुत्पन्नः पुत्रो विवक्षावशेन देवदत्तायाः पुत्रोयं केचन वदंति, देवदत्तस्य पुत्रोयमिति केचन वदंति दोषो नास्ति । तथा जीवपुद्गलसंयोगेनोत्पन्नाः मित्थात्वरागादिभावप्रत्यया अशुद्धनिश्चयेनाशुद्धोपादानरूपेण चेतना जीवसंबद्धाः
1
बंधके कारण जो आस्रव वे सामान्यसे [ चत्वारः ] चार [ बंधकर्तारः ] बंधके कर्ता [ भणिताः ] है हैं वे [ मिध्यात्वं ] मिथ्यात्व [ अविरमणं ] अविरमण [च] और [ कषाययोगौ ] कषाय योग [ बोद्धव्याः ] जानने [तेषां च ] और उनका [ पुनरपि ] फिर [ अयं भेदः ] यह भेद [ त्रयोदशविकल्पः ] तेरह भेदरूप कहा गया है वह [ मिथ्यादृष्ट्यादि ] मिध्यादृष्टिको आदि लेकर [ सयोगिचरमांतः यावत् ] संयोग केवली तक है, वे तेरह गुणस्थान जानने । ] एते ] ये [ खलु ] निश्चय दृष्टिकर [ अचेतना: ] अचेतन हैं [ यस्मात् क्योंकि [ पुद्गलकर्मोदयसंभवाः ] पुद्गलकर्मके उदयसे हुए हैं [ यदि ते ] जो वे