________________
ॐ यशोबजायाचक
[ अष्टक ] यः भाति विदुषामग्र्यः धन्यो मुनिषु यः परः । स यशोविजयः सद्यः स्तुतिमार्गेऽधिरोहतु ॥१॥ शोभनं तं तपोगच्छ-नभोमण्डलमण्डनम् । महद्भिवन्दितं वन्दे, यशोविजयवाचकम् ॥२॥ विद्यया नाशिता येनाऽविद्या विद्वद्जगत्स्वपि । स्तम्भतीर्थे वरे विद्या-गुरुर्विस्मयमापितः ॥३॥ जगत् यस्मै नमस्कार, करोति योगतस्त्रिधा । चमत्कारि-चरित्राय, तस्मै मेऽस्तु नमो नमः ॥४॥ यतो विद्यासरित् साधु वृन्दसनिधिमागता । वहत्यद्याप्यखण्डेन, प्रवाहेणातिनिर्मला ॥५॥ • वादिदर्पमहासर्प-मयूरस्य यशस्विनः ।
कः समर्थो गुणांशाना, वर्णनेऽपि प्रयत्नतः ॥६॥ .चन्द्रांशुनिर्मले यस्य, चरित्रसरसि स्वयम् । विलसन्ति विनोदेन, गुणहंसा अह निशम् ॥७॥ कल्याणदानकल्पद्रो ! मुक्तिमार्गप्रभाकर । कल्याणं मे कुरु श्रीमद्-यशोविजयवाचक ! ||८||