________________
सरः]
द्रव्यसाधनम्
27
सर्वार्थसिद्धिः *'सेयं न रूपमात्रगोचरा ; तस्य स्पर्शनविषयत्वाभावात् अन्यथाऽ. न्धस्यापि स्पर्शनेन रूपोपलम्भप्रसंगात् * न च स्पर्शमात्रगोचरा; तस्यापि दृग्विषयत्वाभावात्। तथात्वे चास्पृशतोऽपि दृशा स्पर्शधीप्रसंगात् । न चोभयविषया; दर्शनस्पर्शनयोः प्रसेकविषयत्वादेव।
आनन्ददायिनी रूपस्पशैक्यबोधनेनैव . तस्याश्चरितार्थत्वात् इत्यन्यथासिद्धिमाशङ्कय परिहरति-सेयं इत्यादिना । न रूपमात्रगोचरा-न रूपमात्रैक्यविषयिणी। दर्शनस्पर्शनयोरिति--चक्षुरिन्द्रियत्वगिन्द्रिययोः । एकैकमात्रविषयत्वेन कस्यापीन्द्रियस्योभयग्राहकत्वं न संभवति । न च मिळितं गृह्णाति ; पूर्वापरकालव्यापारत्वेन युगपद्व्यापाराभावात् । भावेऽप्येकस्योभयगोचरत्वाभावेन वायौ स्पर्श घटे रूपं च गृह्णतोः दर्शनस्पर्शनयोरिव प्रत्यभिज्ञापकत्वायोगादिति भावः ।
भावप्रकाशः सति किञ्चिद्विषयकप्रमात्वात् इति परिशेषतस्साधयिष्यन् विशेषणद्वयासिद्धि पारिहरति-* सेयमित्यादिना । तस्य-रूपमात्रविषयकचाक्षुषस्य । स्पर्शनविषयत्वाभावात्-स्पर्शनविषयविषयकत्वाभावादित्यर्थः । न रूपमात्रगोचरेत्यत्र हेतुस्तु स्पर्शनविषयविषयकत्वमेव । एवमेव न स्पर्शमात्रगाचरेत्यत्राप्यूह्यम् । __उभयविषयविषयकत्वसिद्धया (जगदीशमतेन) अर्थान्तरं शङ्कते*नचेति ।
* दर्शनस्पर्शनयोः-चाक्षुषत्वाचप्रत्यक्षयोः। दृष्टमेव स्पृशामीत्यस्य त्वगिन्द्रियेण स्पृष्टमेव पश्यामीत्यस्य चक्षुरिन्द्रियेण जननादाघे रूपस्य द्वितीये स्पर्शस्य च भानस्य बौद्धमतेऽप्यनङ्गीकारेण नार्थान्तरावकाश इति भावः ।