________________
सरः] कालस्य नित्यत्वविभुत्वसमर्थनं प्रतिबन्दीनिरासः विभोः कारणत्वोपपत्तिश्च 637
सर्वार्थसिद्धिः . सर्वत्र परमात्मास्तीति तस्य कालव्यापकत्वम् । इदं च तस्य धर्मभूतज्ञानेऽपि द्रष्टव्यम् । ‘परमात्मनः स्वरूपैकदेशे विश्वं व्यवस्थितम्' इत्येतदपि तादृशव्यतिरिक्तविषयम् । अन्यथा तस्य ज्ञानानन्दत्वादेरप्येकदेशित्वप्रसङ्गात् । न चैवं सति सर्वजीवानां व्यापित्वेऽप्यविरोधस्स्यादिति वाच्यम् ; अणुत्वश्रुत्या तत्प्रतिषेधादिति । ननु कालतो देशतो व्यतिरेकग्रहणस्याशक्यत्वानित्यविभूनां कारणत्वमेव न सिध्यति; कुतस्सर्वकारणत्वम् । इत्यनुयोगश्च धर्मिग्राहकेणैव निरस्तः । आस्ति हि लोकेऽप्युपदेशतोऽपि तत्तद्वस्तुषु कारणत्वग्रहणम् ! अथ स्यात् ; नियतपूर्वसत्त्वं कारणत्वम् । नियमश्वास्मिन् सत्येवेदं भवतीत्येवं रूपः। तत्रावधारणसिद्धोऽन्यदा नास्तीत्ययमों नित्येषु च विभुष्व
आनन्ददायिनी वक्तव्यमित्याह-इदं चेति । धर्मभूतज्ञानस्य विभुत्वादिति भावः । ननु
तस्य स्वरूपैकदेशे विश्वमेतद्वयवस्थितम् ।
तस्यायुतायुतांशांशे विश्वशक्तिरवस्थिता ॥ इति वचनविरोधस्स्यादित्यत्राह-परमात्मन इति । विश्वशक्तिःविश्वमित्यर्थः । अन्यथेति । ज्ञानस्य प्रादेशिकत्वे व (किंचित्प्रदेशे जडत्वप्रसङ्गादिति भावः । ननु व्याप्यत्वान्यथानुपपत्त्या जीवाणु(वान्य)त्वं न स्यादित्यत्राह--न चैवमिति । ग्राहकाभावेन ग्राह्याभावं शङ्कतेनन्विति । असिद्ध्या परिहरति-निरस्त इति । असिद्धिमेवोपपादयतिधर्मिग्रहण इति । ननूपदेशो योग्यताविरहान्न बोधक इति शङ्कतेअथेत्यादिना । ग्राह्यस्य बाधादिति भावः । तर्कस्वरूपमाह