________________
सरः]
कालोपश्लिष्टवर्तमानत्वनिगमनं कालस्य क्षणादिरूपत्वे पक्षभेदश्च
631
तत्वमुक्ताकलापः कालस्योपाधिभेदात् कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण कालः परिणमत इति प्राहु
सर्वार्थसिद्धिः रूपत्वम् ? इत्यत्र प्रसिद्धं पक्षमाह-कालस्येति । आदिशब्देन भूतभविष्यत्त्वादेरपि संग्रहः । नित्यस्यापि कालस्य द्रव्यान्तराणामिवावस्थाभेदैस्सर्व स्यात् ; अवस्थाश्चात्रोपाधिसंबन्धमात्ररूपा इति लघीयान् पक्षः। पक्षान्तरमाह-तत्तद्रूपेणेति । यादवप्रकाशैरभ्युपगतोऽयं पक्षः। 'कालोऽनाद्यनन्तोऽजस्रपरिणामी मुहूर्ताहोरात्रादिविभागयुक् सर्वेषां परिणामस्पन्दहेतुः' इति वचनात् । अयं भावः-क्षणरूप एव कालस्य सर्वदा परि
आनन्ददायिनी परिच्छेदः न तु देशपरिच्छेद इति भावः । प्रसिद्धमिति---उपाधिपरिच्छेदस्य काणादादितन्त्रसिद्धत्वादिति भावः । आदिशब्देन वर्तमानत्वादिसंग्रहः । द्रव्यान्तराणामिवेति । तन्त्वादीनां पटाद्यवस्थाभेदेनेवेत्यर्थः । लघीयान् पक्ष इति---अतिरिक्तपरिणामपक्षेऽप्यावश्यकत्वालघुतरत्वमस्यति भावः । यादवप्रकाशवचनमुदाहरति--कालोऽनाद्यनन्त इतीति केचित् । श्रुतिवाक्यमित्यन्ये । परिणामपक्षे क्षणलवादिव्यापिपरिणामो न स्यात् । युगपत्परिणामद्वयस्य विरुद्धत्वात् । न चेष्टापत्तिः । संवत्सरादिपरिणामकाले क्षणादिपरिणामाभावेन तद्व्यवहाराभावप्रसङ्गादित्यत्राह-अयं भाव इति । क्षणरूप एवेति-तथा च परिणामान्तरस्यानभ्युपगमात् क्षणादिव्यवहारविरोधोऽपि नास्ति मास