SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 630 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः विनाशप्रागभावोपश्लेषेण ? वर्तमानत्वमेव वर्तमानत्वमित्युक्तं स्यात् । अथ प्रमाणसिद्धत्वादिरूपं सत्त्वं तदाऽपि विनाशस्य प्रागभावः प्रतियोगिस्वरूपमेवेति तेन रूपेण योगिभिर्गृह्यमाणं त्रैकालिकमपि वर्तमानं स्यात् । अतोऽन्यदेव वर्तमानत्वम् । तच्च कालोपश्लेषेणैव गृह्यते । वर्तमानकालोपाधिसंबन्ध एव वस्तूनां वर्तमानत्वमित्यपि न वाच्यम् उपाधौ तदभावादवर्तमानत्वप्रसङ्गात् । उपाधिभिरेव सर्वव्यवहारनिर्णये किमप्रत्यक्षकालकल्पनया? ॥६८॥ कालप्रत्यक्षत्वम्. यदि नित्य एकः कालः! तस्य कथं परिच्छिन्नानेकस्व आनन्ददायिनी आत्माश्रयश्चेति भावः । द्वितीयं दूषयति--अथेति । ननु वर्तमानकालस्योपाधिर्यस्तत्संबन्ध एव वर्तमानताऽस्तु किं कालविशेषकल्पनयेत्यत आह--- वर्तमानकाल इति । वर्तमानकालोपाधेः स्वेन संबन्धाभावाद्वर्तमानव्यवहारो न स्यादिति भावः । उपाधिभिरिति-न चेष्टापत्तिः ! कालस्यागमिकत्वेन श्रुत्या च पूर्व साधितत्वादिति भावः ॥६८|| कालप्रत्यक्षत्वम् . आक्षेपसंगतिमाह-यदीति । परिच्छिन्नेति-क्षणादिरूपेण
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy