SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 586 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः भूभ्रमणवादस्य *जैनोक्तस्य च भूपतनस्य भ्रान्तिकल्पि भावप्रकाशः इति च श्लोकः । 'युगरविभगणाः' 'प्राणेनैति कलां भः' इत्यादिरादिशब्दार्थः । सिद्धान्तशेखरे श्रीपतिश्च इमामेव कारिकां भूभ्रमणस्थापनपरतया व्याचकार-- नौस्थोऽनुलोमगमनादचलं यथा न चामन्यते चलति नैवमिलाभ्रमेण । लङ्कासमापरगति प्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति कचित् ।। इति । अत्र अनुलोमगति स्थः इत्यादिश्लोकोत्तरार्धे नौस्थः पश्यतीति पदद्वयानुषङ्गेण अचलानि भानि समपश्चिमगानि पश्यतीति योजनया नौस्थानाभिषिक्तभूस्थः भचक्रं स्थिरमपि चलत्वेन जानातीति भावः ।। _1 * जैनोक्तस्येति- यद्यपि भपञ्जरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः । (शिरो-गोला भुवनकोश ७) इत्यतो बौद्धैरपि भूपतनमुक्तमिति ज्ञायते ; तथाऽपि तत्र अनुपपत्तिपरिहारपूर्वकं जैनैः व्यवस्था कृतेत्यवगम्यते ; यथा-- द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्याः ॥ ___ (शिरो गो. भुवन ८) इति । अतः बौद्धोक्तस्येत्यनुक्त्वा जैनोक्तस्येत्युक्तिः । श्रीपतिश्च स्पष्टमेव भूपतनं एतच्छ्लोकोक्तयुक्त्या जैनसंमतमित्याह सिद्धान्तशेखरे (टिप्पणे)-- अधः पतन्त्याः स्थितिरस्ति नोाः नभस्यनन्तेऽत्र वदन्ति जैनाः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy