SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिलोकभ्रिमणपक्षदूषणम् विनिगमनाविरहपारहरः सर्वार्थसिद्धिः 1 तदविशेषाद्भुवोऽपि कल्प्यतामिति चेन्न '* अपेक्षितस्या' *न्यथैव सिद्धेः । अत्र 'अनुलोमगतिनस्थः ' इत्यादिषु स्थापितस्य आनन्ददायिनी इत्यादिवदर्थवादतयाऽन्यपरत्वादिति भावः । अपेक्षितस्येति — उदया - स्तमयादेरित्यर्थः । यद्वा उत्तानादिवाक्यनिर्वाहस्येत्यर्थः । निर्वाहस्तूक्त एव । अनुलोमगतिर्नौस्थः यद्वज्जन्तुश्चरति भूमध्ये | नित्यं भ्राम्यति भूमिः नित्यप्रवहेण वायुना नुन्ना | इति ज्योतिश्शास्त्रैकदेशिनां मतं ; निराधारा भूमिः नित्यमधः पातिनी यस्मात् । इति जैनमतं च दूषयितुमनुभाषते --- अत्रानुलोम गतिरित्यादिना । 585 भावप्रकाशः ग्रहाणां न दृश्यत एव। यथेोक्तम् -' इदानीं ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह -- यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्यापरशीघ्रगत्या । कुलालचक्रभ्रमिवामगत्या यान्तो न कीटा इव भान्ति यान्तः ॥ (शिरो. गोला. मध्य - वसना. ४ ) इति । ' * अपेक्षितस्येति - अयन संक्रमऋतुभेदग्रहणादय इहापेक्षितशब्दार्थः । 2 * अन्यथैव —–— ग्रहाणां प्राग्गत्यङ्गीकारेणैवेत्यर्थः ॥ 3 * स्थापितस्येति -- अनेकग्रहाणां प्राग्गत्यङ्गीकारे गौरवं एकस्या भुव एव भ्रमणाङ्गीकारे लाघवमित्यस्मिन् पक्षे युक्तिरुत्तरत्र शङ्कावसरेषु व्यक्तीभविष्यति । अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy