________________
सरः
त्रिलोकीभ्रमणपक्षे तदुक्तयुक्तिः
583
सर्वार्थसिद्धिः इति । कैश्चित् 'उत्ताना ह वै देवगवा वहन्ति' इत्यादिनिर्वहणाय ।
आनन्ददायिनी नित्यं त्रिलोकी भ्रमति श्रुतिवाक्यानुसारतः ।
अतो भचक्रं भ्रमति विपरीतं ग्रहान्वितम् ॥ इति गणितैकदेशिमतमनुवदति-कैश्चिदिति । भ्रमणेनोपर्यधोभावे देव
भावप्रकाशः इति चोक्तम् । भानामधश्शनैश्चरेत्यादिश्लोकेन भुवः भ्रमणं न घटते ; अपि तु स्थैर्यमेव सिध्यतीत्ययमंशः उत्तरत्रोपपादयिष्यते । सर्वग्रहभ्रमणं च
कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोच्चादनुलोमं प्रतिलोमं चैव श्रीघ्रोच्चात् ॥ इत्यत्रोक्तम् ॥ ___ भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ।। इत्यत्र भुवः ग्रहेभ्यः पृथग्ग्रहणेन ग्रहत्वं नस्ति भुव इति सूचितम् । ग्रहशब्देन न भुवो ग्रहणम्---' पश्चाद्रजन्तोऽतिजवात्' इत्यादि सूर्यसिद्धान्तोक्तषड्डिधगतिमतामेव ग्रहत्वस्य ग्रन्थकृत्संमतेश्च । उदयास्तमयानिमित्तमिति श्लोकः ‘भूभगणभ्रमणसंस्थान' इत्यादिबृहत्संहिताव्याख्यानावसरे भट्टोत्पलेन भूभ्रमणवादनिरासार्थमुदाहृतः। अत्र भूभगणभ्रमणसंस्थानेत्यादिमूलस्य भमेः भगणस्य च भ्रमणसंस्थानाभिज्ञ इत्यव्याख्याय भूमेस्संस्थानाभिज्ञः इति व्याख्यानात् 'युगरविभगणाः' इत्यादिगीतिकापादतृतीयश्लोके प्राग्गत्या भगणकथनं मिथ्याज्ञानसिद्ध