SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 568 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः चटुलबहुलताद्यन्वयात्तन्न नैल्यम् सर्वार्थसिद्धिः इति य एवं वदन्ति तान् प्रति उभयसंमतेन नीलत्वेन पार्थिवत्वं साध्यते ; द्रव्यान्तरकल्पने गौरवात् । अवान्तरविशेपश्च न वैजात्यहेतुरित्युक्तम् । प्रभातुल्यत्वपक्षे पित्तवदृक्प्रभापसर्पपक्षेऽपि नीलत्वाद्भौमत्वं सिद्धमेव । ये त्वाहुः-'वियति विततानां सूक्ष्माणां पृथिव्यवयवानां कृष्णो गुणस्तमः' इति ; तेषां निराधारनैल्योपलम्भोऽशक्यसाधन इत्यभिप्रायेणाहतन्न नैल्यमिति । हेत्वन्तरमाह--चटुलेति । चटुलत्वबहलत्वविरलत्वादिकं हि द्रव्यधर्म एव । नच तदुपलम्भो नास्ति नीलोपलम्भो वा ! विश्वविरोधात् । नचात्रालोकापसर्पणादिहेतुभेदैश्चटुलत्वमारोपितम् ! प्रत्यक्षभ्रमेषु गुणमात्राधिष्ठानत्वादृष्टेः । आनन्ददायिनी उक्तेष्वन्तर्भावप्रकारमाह-उभयसंमतेनेति । तमः पार्थिवं नीलत्वात् संमतवदित्यनुमानेऽनुकूलं तर्कमाह- द्रव्यान्तरेति । स्पर्शरहितत्वे सति रूपवत्त्वं विशेषो भेद(नभेद)क इत्याह-अवान्तरति । केचित्तुप्रभातुल्यं द्रव्यं तम इत्याहुः । अन्ये तु पीतश्शङ्ख इत्यादौ नयनगतपित्तद्रव्यस्येव चक्षुषःकृष्णतारस्य विसर्पिप्रभा तम इति वदन्ति । तन्मतेऽपि पार्थिवत्वमविरुद्धमित्याह-प्रभा तुल्यत्वेति । निराधारेतिसूक्ष्मत्वेन पार्थिवावयवानामुपलम्भासंभवात् (गुणस्य) धर्मिभावनियतत्वेन तदभावान्नैवमित्यर्थः । यदि विततानां पार्थिवानामेव तमस्त्वं तदा सिद्धान्तविरोधः; आतपादावमानं च कल्प्यमित्यवधेयम्। चटुलत्वं-- क्रियावत्त्वम् । तदुपलम्भश्चटुलत्वाद्युपलम्भः । प्रत्यक्षभ्रमेष्विति --- पना
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy