________________
सरः] अवान्तरविशेषान्नात्तजातीयता हेमादिपदव्युत्पत्तिविरोधः तमोतिरेकवादः 567
तत्वमुक्ताकलापः नैल्यागौमं तमिस्र
सर्वार्थसिद्धिः न च हेमादिशब्दानां युक्तं दृष्टप्रमाणतः । अलोकव्यवहाराहे कुत्रचिद्वृत्तिकल्पनम् ॥ ५९ ।।
हेमादेस्तैजसत्वोक्तितात्पर्यम्.
तेजोऽनन्तरे तोये विप्रतिपन्नार्थाभावात् तदुल्लबनेन तमसः पृथिव्यामन्तर्भावमाह-नैल्यादिति ॥
तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधात् नवभ्यो भेत्तुमर्हति ॥
आनन्ददायिनी सर्वव्यवहारोच्छेद इत्यर्थः । तैजसत्वे बाधकान्तरमाह-नच हेमादिशब्दानामिति । दृष्टप्रमाणत इति ल्यब्लोपे पञ्चमी । दृष्टं-प्रत्यक्षं तेन सिद्धमुपष्टम्भकं परित्यज्य लौकिकव्यवहारानर्हे वस्तुनि शक्तिकल्पनं विरुद्धमित्यर्थः ॥ ५९॥
हेमादेस्तैजसत्वोक्तितात्पर्यम्
अवसरसंगतिमाह-तेजोऽनन्तरमिति । तमसः क्रियावत्त्वात् परत्वापरत्वविभागादिगुणवत्त्वाद्रव्यत्वे सिद्धे स्पर्शासमानाधिकरणनीलरूपात्मकवैधात् पृथिव्यादिनवद्रव्येभ्यो भेद इति मीमांसका आहुः । तत्र तदभिमतं पृथिव्यादिभ्यो भदं प्रतिक्षेप्तुमनुभाषते-तमःखल्विति ।