SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ सरः] वायुप्रत्यक्षता, गुणानुमेयतानिरासः त्वा वप्रत्यक्षत्वानुपपत्तिनिरासः 539 तत्वमुक्ताकलापः न पुनरगमकं स्पर्शनं रूपशून्ये । अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे सर्वार्थसिद्धिः द्रव्यग्रहणनिवृत्त्यर्था । उपलक्षणमेतत् अन्धतमसमध्यस्थस्य ; सालोकेऽपि निमीलितचक्षुषश्च । नचैतद्युक्तम् ! दर्शनस्पर्शनाभ्यामेकार्थग्रहणाभ्युपगमात् ; अन्यथा द्रव्यापह्नवप्रसङ्गाच्च । ननु नीरूपं कथं प्रत्यक्षम् ? आत्मादीन् पश्य ! कथं बाह्याक्षग्राह्यम् ? रूपादीनिरूपय ! कथं स्पर्शनवेद्यम् ? स्पर्शमेव परामृश! इत्यभिप्रायेणाह-न पुनरति । तथापि नीरूपद्रव्यं कथं बाह्येन्द्रियग्राह्यम् ? त्वगिन्द्रियग्राह्यं वा ? इत्यत्राह-अन्याक्षीत । इन्द्रियाणां स्वग्राह्यविशेषगुणोपधानेन हि द्रव्यग्राहकत्वमिति वः कल्पना । ततश्चेन्द्रियान्तरग्राह्यविशेषगुणविरहेऽपि वायोस्त्वीगीन्द्र . आनन्ददायिनी न चैतदिति । तेनैव द्रव्यसाधनादिति भावः। आत्मादीनिति-नीरूपस्याप्यात्मनः प्रत्यक्षत्वदर्शनात् तेनाप्रत्यक्षत्वसाधनमनुपपन्नमिति भावः । शकते-कथमिति । उत्तरमाह -रूपादानिति । तद्बाह्येन्द्रियग्राह्यत्वाव्याप्यमपि न भवति रूपे व्यभिचारादित्यर्थः । पुनर्विशे(पुनरपिविशे)षव्याप्तिमभिप्रेत्याशङ्कते-कथं स्पर्शनेति । उत्तरमाह-स्पर्शमेवेति । इन्द्रियाणामिति तथाच स्वग्राह्यगुणाभावे तदिन्द्रियग्राह्यता न स्यात् ; न चात्र तदभावः! इति भावः । यदीन्द्रियान्तरग्राह्यगुणाभावाददपि
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy