________________
538
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसौ अन्धेऽन्येषु प्रसङ्गात्
सर्वार्थसिद्धिः
आकाशे चिन्तिते प्रसङ्गाद्दिगन्तर्भाव उक्तः ; अथाकाशानन्तरभाविनि वायौ स्वरूपतस्संप्रतिपन्ने प्रमाणविप्रतिपत्तिं निररस्यति – वातो वातीति । त्वगिन्द्रियपवनसंयोगे सति सावधानस्य वातो वातीति धीस्तावद्दुरपलपा सा साक्षात्काररूपा क्षित्यादिधीसमत्वादित्यर्थः । यदत्र गुणेन गुण्यनुमानमाहुः ; तत्प्रतिषेघति–स्पर्शत इति । न हि गन्धादिवदिह गुणमात्रोपलम्भ इति भावः । अन्यथा ऽतिप्रसङ्गमाह – अन्धे इति । अन्धे पुरुषे अन्येषु पृथिव्यादिषु भूतेषु त्वगिन्द्रियेण या स्पर्शधीस्सा स्पर्शमात्रविषया तत्तद्द्रव्यानुमितिहेतुस्स्यात् ; अन्धोक्तिश्चक्षुषा
आनन्ददायिनी
अवसरलक्षणसंगत्या वायोर्निरूपणीयत्वेन प्रसक्तौ (क्तः) मध्ये दिनिरूपणस्य का संगतिरित्याशङ्कां परिहरन्नवतारयति - आकाशे इति । ननु वायुस्वरूपे विवादाभावात् तत्र निरूपणीयं किमित्यत्राह - अथेति । अनुमानतस्सा धीरस्त्वित्यत्राह – सेति । क्षित्यादिधीत् वायुं स्पृशामीत्यनुव्यवसायादिति भावः । अन्यथेति — गुणमात्रोपलम्भे इत्यर्थः । तदेवोपपादयति - त्वगिन्द्रियेणेति । इष्टापत्तिं परिहरति