SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सरः ] दिक्तत्वक्षेप वायुतालप्रतिबन्दिनिरासः पाणिनीयव्यवहारोपपत्तिश्च 535 तत्वमुक्ताकलापः कालवद्दा न भेदः कण्ठोक्को व्याक्रियादिव्यव सर्वार्थसिद्धिः स्पर्शशब्दधृतिकम्पलिङ्गैस्सिद्धिरिति वदामः ! येन तेषामन्यथासिद्धिरुच्येत ; किंतु तेषु तेषु शास्त्रेषु तत्वपङ्क्तौ परिगणनात् ; नैवं दिवं गण्यत इति । अ ( : ) कालप्रतिबन्दि निस्तरति - कालवद्वेति । अस्ति हि ‘रूपान्तरं तद्विज ! कालसंज्ञम् ' इत्यादि । ननु ' दिग्देशकालेवन्स्तातिः' इत्यादिषु देशाद्भिन्नादिक कालवत् शास्त्रेषु व्यवहियते इत्यत्राह — व्याक्रियेति । प्रमाणसिद्धदिक्तत्वानुसारेण त (त) त्कार्यविशेषविधायिनां शास्त्राणां तत्स्वरूपनिष्कर्षे तात्पर्याभावान्न ततस्तद्विशिष्टसिद्धिरित्याशयः । अथ स्यात् ; 'प्राणाद्वायुरजायत' इत्यादौ वाय्वादितत्वैस्सह दिशः पृथक् सृष्टिरुच्यते ; अतस्तद्वद्दिशोऽपि तत्वान्तरत्वं स्यात् ; एवं आनन्ददायिनी 6 दपि तत्सिद्धिरिति भावः । ननु आत्मन आकाशः' इति तत्वपङ्क्तौ कालस्या (काला) परिगणनात् तत्सिद्धिरपि न स्यादिति प्रतिन्दि परिहरति--अत्र कालप्रतिबन्दिमिति । ननु ' रूपान्तरं तद्द्विज कालसंज्ञम्' इति पौराणिकभेदव्यवहारवत् (व्याकरणे) 'दिक्छब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः' इति दिशोऽपि भेदेन व्याकरणव्यवहारात् तत्सिद्धिरपि स्यादित्याशङ्कते – नन्विति । प्रमाणसिद्धेति – दिशस्तत्वान्तरत्वाभावेऽपि क्लृप्ततत्वविषयक दिग्व्यव हारमादायाप्यस्तातिविधानसंभवान्न ततोऽतिरिक्तदिक्सिद्धिरिति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy