________________
534
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः सङ्ख्यानं तत्वपङ्क्तौ क्वचिदपि न दिशः;
सर्वार्थसिद्धिः द्यतिरिक्तं कल्पयामः! किन्त्वागमिकमभ्युपेमः; अतो न तस्यासिद्धिरिति भावः ॥४९॥
यदि पृथक्वेन लोकवेदप्रसिद्धा दिगपढूयेत ; तथा वायुरपि; अस्य हि उपलभ्यमानः स्पर्शः उष्णश्शीतोऽनुष्णाशीतो वा ? त्रेधाऽपि न छान्दोग्याधीततेजोऽबन्नातिरेकस्सिध्येत् । तिर्यपवनमप्यदृष्टवशात्तेषामेव स्यात् । शब्दधृतिकम्पैरपि नातिरिक्तमनुमातव्यं ; तैरेव तत्संभवात् । वातोपनीततत्तद्भूतान्तरावयवन्यायादनुद्भूतरूपतया दुर्दर्शत्वं स्यादित्यत्राहसङ्ख्यानमिति । अयं भावः—न हि वयमप्रत्यक्षस्य वायोः
. आनन्ददायिनी व्योमेतरतेत्यर्थः ॥ ४९॥
आक्षेपसंगतिमाह—यदि पृथक्त्वेनेति । उष्ण इत्यादिउष्णतया शीततया अनुष्णाशीततयोपलभ्यमान इ(इती) त्यर्थः । छान्दोग्याधी(धिग)त इति--'हन्ताहमिमास्तिस्रो देवता' इति छान्दो. ग्याधीतपृथिव्यप्तेजोऽतिरेकेण न सिध्येदित्यर्थः । ननु पृथिव्यादिविलक्षणधर्मवत्त्वादतिरिक्तस्सिध्यदित्यत्राह-तिर्यक्पवनमिति । ननु पृथिव्याद्यन्यतमत्वे रूपवत्त्वापत्तिरित्यत्राह --भूतान्तरेति । वायू (वातो) पनीतगन्धावयवतप्तवारिंगतवयाद्यवयववदनुभूतरूपवत्त्वसंभवादित्यर्थः । ननु दिशस्तत्वपतिपरिगणनाभावो दिक्सिद्धिबाधको न तु वायुसाधक इत्यत्राह-अयं भाव इति । 'आकाशाद्वायुः' इति तत्वपरिगणना