SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ सरः]सिद्धादीनांभूम्यादावुन्मज्जनोपपत्तिः,नभसःपराभिमतावरणाभावरूपतोक्तिश्च509 तत्वमुक्ताकलापः वाजल इव कथितो(कठिने)युज्यते मन्जनादिः॥४५ सर्वार्थसिद्धिः भूम्यादिषु प्रवेशप्रतिघात एव नास्तीति मन्यन्ते, काचादिषु नीरन्धेषु नयनप्रभादेरिवेति ॥ ४५ ॥ ___ अवकाशनिरूपणम्. अत्र केचिच्चार्वाकास्सौगताश्च प्राहुः-' चत्वार्येव भूतानि । आकाशस्त्वावरणाभा(व एव)वः । स च निस्स्वभावः; तुच्छतयैवोपलम्भात् । यत्र चा)त्रावरणं न तत्राकाशः; अभित्वा दुर्दर्शत्वात् । भेदे त्वावरणाभावस्यैव सिद्धेः । यदि (च)तत्राकाशस्स्यात् निरवकाशं न किञ्चित्स्यात् । अतो घटतदभावन्यायादावरणेष्वसत्त्वादयमावरणाभावः। तदिह शून्यधातुसंज्ञिते च निस्तत्वेऽप्यावरणाभावे वपुष्पादिषु तत्तच्छब्द __ आनन्ददायिनी आक्षेपसंगतिं दर्शयति-अत्र केचिदिति । तुच्छतयेति । शून्यतयेत्यर्थः । आवरणाभावत्वे युक्तिमाह-यत्रावरणमिति । अभित्त्वेति । आवरणे सत्यनुपलम्भादावरणाभावस्यैवावकाशत्वादिति भावः । घटतदभावन्यायादिति । विरोधित्वादपि आकाशावरणयोर्भावाभावरूपतेत्यर्थः । नन्वाकाशस्य शून्यत्वे तत्राकाशादिशब्दानां व्युत्पत्तिग्रहो न स्यात् ; सर्वत्र सत्ये(सत्य ए)व व्युत्पत्तिग्रह इत्यत्राह-तदिहेति । भ्रान्तिसिद्धेषु खपुष्पादिशब्दव्युत्पत्तिग्रहवत् भ्रान्तिसिद्धे तस्मिन् तच्छब्दस्य तद्ह इत्यर्थः । नन्वारणाभावरूपत्वमेवाशङ्कितम् ; न च तथात्वे
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy