________________
508
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः प्राध्यतत्वेष्विव स्यात् । इत्यैदम्पर्यमुह्यं; न यदि कथमिवान्येषु लभ्यो ऽवकाशः ? सिद्धादेस्स्वप्रभा
सर्वार्थसिद्धिः मस्तीति भावः । आकाश एव तर्हि अवकाशस्स्यादित्यत्राहन यदीति । अस्पर्शत्वाविशेषात् महदादिप्रदेशानामप्यवकाशत्वं ग्राह्यम् । ननु स्पर्शवतां मिथःप्रतिघातकत्वनियमो नास्ति ; भूमावुन्मजति निमजतीत्यादिसिद्धप्रतिपादनादित्यत्राहसिद्धादरिति । अनेन जन्मौषधिमन्त्रतपस्समाधिभूतसिद्धिमतां तत्तदुपष्टब्धानां च संग्रहः। जलदृष्टान्तेन विभज्य प्रवेशनं पुनश्शीघ्रसंभेदश्च सूच्यते । केचित्तु-सिद्धादीनां प्रभावविशेषेण
__ आनन्ददायिनी आकाश एव तीति । आकाशाभावस्थलेऽप्यवकाशसत्त्वान्नाकाशस्यावकाशत्वम् । अप्रतिघातकत्वमात्रेणाकाशस्य तत्त्वे महदादीनामपि तथात्वात्तत्त्वप्रसङ्गादि(ङ्ग इ)ति भावः । ननु--
सिद्धयोगस्तदा(था)भूमावुन्मज्जति निमज्जति । इति योगरहस्यादावुक्तेः स्पर्शवव्यस्यापि प्रतिघातकत्वनियमो नास्ती त्याशङ्कय परिहरति --ननु स्पर्शवतामिति । तदुपष्टब्धानामिति । तादृशोपष्टम्भवतां (दृगौषधवतां) तदनुगृहीतानां चेत्यर्थः । विभाग सम्भेदौ विनैव विवक्षा(पक्षा)न्तरमाह-केचित्त्विति ॥ ४५ ॥
अवकाशनिरूपणम्.