SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 506 सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्वेत् तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥४४॥ सर्वार्थसिद्धिः भावः । सहकारिवैकल्यात् कुड्यादिषु निष्क्रमणादिकार्यप्रतिरोध इति शङ्कते —रोध इति । तुशब्दः केवलाकाशाद्विशेषद्योतकः । एवं सति निष्क्रमणादेरन्यथासिद्धया निर्मूलं नभःकल्पनमित्यभिप्रायेणाह — तदभवनेति । न हि निष्क्रमणादेराकाशं समवायि; देहादिक्रियाया नभोनिष्ठत्वाभावात् । नाप्यसमवायि ; द्रव्यस्य तथात्वानभ्युपगमात् समवायिकारणप्रत्यासन्नत्वायोगाच्च । निमित्तं तु ईश्वराद्यतिरिक्तमपूर्वमिह नापेक्ष्यमिति भावः ॥ ४४ ॥ आकाशानुमेयत्वभङ्गः. आनन्ददायिनी दिकं स्यादित्यपसिद्धान्त इत्यर्थः । सच्छिद्रत्वाभावप्रसङ्गादिति क्वचित्पाठः । तदा तस्य सरन्ध्रकुड्यादेराकाशात्मकच्छिद्रवत्त्वं न स्यादित्यर्थः : । सहकारीति । कुड्यस्य प्रतिबन्धकतया तदभावोऽपि कारणमित्यर्थः । अन्यथासिद्धयेति । अपेक्षणीयकुड्या भावेनेत्यर्थः । (ननु) कुड्याद्यभावस्य निमित्तत्वेऽपि समवायादिसापेक्षतया तत्सिद्धिरित्यत्राह---नहीति । अथवा तदेवोपपादयति - न हीति ॥ ४४ ॥ 1 आकाशानुमेयत्वभङ्गः.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy