________________
सरः] आकाशस्यानुमानिकत्वखण्डनं, निष्क्रमणादेराकाशालिङ्गतानिरासश्च 505
तत्वमुक्ताकलापः मातुं स्वेच्छातः पारिशेष्य(ष्यात्)क्रम इह कथितोऽतिप्रसङ्गादिदुस्थः। निष्क्रान्त्यादर्न तद्वीः सति
सर्वार्थसिद्धिः दिभिः पृथिव्याद्यतिरिक्तस्पर्शाधार(कल्पन)प्रसङ्गाच्च । तदेतदभिप्रेत्याह-स्वेच्छात इति । आदिशब्देन विपरीतप्रसङ्गसङ्ग्रहः । 'निष्क्रमणं प्रवेशनमित्याकाशलिङ्गम्' इति परोक्तं प्रतिवक्ति-निष्क्रान्त्यादेरिति । उपपादयति-सतीति। यत्राकाशस्तत्र सर्वत्र निष्क्रमणादिकं न सिध्यति; आकाशव्याप्ते कुड्यादौ निष्क्रमणादेरशक्यत्वात् । न च कुड्यादिष्वाकाशो नास्तीति वाच्यम् । तस्य सच्छिद्रत्व (त्वाभाव) प्रसङ्गादिति
आनन्ददायिनी समवायादिग्रहणात् त्वगिन्द्रियेण घटत्वादिजातिपरिमाणग्रहणाव्याभिचार इति चेन्न ; नीरूपेन्द्रियग्राह्यविशेषगुणत्वादित्यर्थत्वात् । आदिशब्देन रसगन्धौ न पृथिवीजलाश्रितौ द्रव्यग्राहकेन्द्रियग्राह्यगुणत्वात् अचक्षुरिन्द्रियग्राह्यत्वात् शब्दवत् ; रूपं न पृथिव्याद्याश्रितं द्रव्यग्राहकेन्द्रियग्राह्यविशेषगुणत्वात् ज्ञानवत् इत्यादयो गृह्यन्ते । तदेतदभिप्रेत्याह--स्वेच्छात इति । विपरीतप्रसङ्गेति । शब्दो विभुधर्मो न भवतीति प्रागुक्त इत्यर्थः । यद्वा शब्दः पृथिव्यादिचतुष्टयान्यतमाश्रयः बाह्येन्द्रियग्राह्यविशेषगुणत्वात् बहिरिन्द्रियव्यवस्थापकगुणत्वात् इत्यादिप्रसङ्गः । निष्क्रमणमित्यादि । एतत्सूत्रेण गौतमोक्तमित्यर्थः । सच्छिद्रत्वेति-तथा च तस्याकाशस्य सरन्ध्रतया सावयवत्वानित्यत्वा