SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 472 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे (जडद्रव्य तत्वमुक्ताकलापः श्रुतिमितमपि चानन्त्यमेषां स्वकार्यैः ॥ ३९ ॥ सर्वार्थसिद्धिः नयनरश्मिगतितत्प्रतिघातादिकं च भाष्योक्तम् । ननु 'प्राणशक:निर्दिष्टानीन्द्रियाणि' प्रक्रम्य ' सर्व एवानन्ताः' इति श्रुत्या सर्वेषामिन्द्रियाणां विभुत्वं ग्राह्यमित्यत्राह-श्रुतिमितमिति । यथोक्तं भाष्ये हृदयस्थानां चेन्द्रियाणां तत्तन्नाडीभेदैः तत्तत्प्रदेशविशेषप्रसात् तत्र तत्र कार्यकरत्वं चावधातव्यम् । अत्र 'सर्वे प्राणा अनूत्क्रामन्ति' इति श्रुतेस्संकोचकाभावात् आनन्ददायिनी द्वारा प्राप्तिः । वृत्तिर्हि विकारविशेषः ; स च इन्द्रियव्याप्तिरेवेति भावः । ननु आगमिकव्यवहारस्वारस्यबाधाभावादित्यनेन रश्मिद्वारैव हैतुकवत् प्राप्तिस्सूच्यते । अत एव न्यायसिद्धाञ्जने ' दूरस्थग्रहणे तु चाक्षुषमहःप्रसरात् संबन्धसिद्धिः । तच्च करणपादद्वितीयाधिकरणे प्रपञ्चितम् । प्रतिबिम्बग्रहणे तु स्वच्छद्रव्यप्रतिहतस्य नयनमहसः प्रतिप्रसरादि (मूलत्वं)भ्रान्त्यधिकरणे पूर्वपक्षेऽभिहितम्' इत्यादिना नयनरश्मि(गमना)प्रसरादिकमुक्तम् ; तत्कथं भाष्यानुमतम् ? इत्यत्राह-नयनरश्मीति । ‘त एते सर्व एव समाः सर्वेऽनन्ताः' इति श्रुतेः 'अथ यो ह वैताननन्तानुपास्ते' इत्युपासनोपक्रमात् उपास्यप्राणविशेषणभूतकार्यबाहुल्यपरत्वमित्याह—यथोक्तं भाष्य इति । 'अणवश्च' इति सूत्रभाष्य इत्यर्थः । अत्र ‘सर्वे प्राणा अनूत्क्रामन्ति' इति श्रुतेस्संकोचकाभावादिति-ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्तिविनाशौ ; न पुनस्तेषां
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy