SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ 468 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे ... जडद्रव्य सर्वार्थसिद्धिः वादाच्च ।आदिशब्देन देहान्तरावाप्तिगत्यागतिसंग्रहः । न चैतेषां जीववदणुत्वं विशेषतो दृश्यते ! तथा सति श्रोत्रादीनामनेकाधिष्ठानवर्तित्वं स्पर्शनरसनयोश्च पृथुप्रदेशव्यापित्वं न स्यात् । सिद्धेऽपि ह्यणुत्वे विकासशक्तया वृत्तिविशेषद्वाराऽऽप्यायकाचयाद्वा पृथुत्वमङ्गीकार्यम् । अन्यथा पिपीलिकादिशरीरस्थस्य स्पर्शनस्य गजादिशरीरप्रवेशे तादृशपृथुत्वासिद्धिप्रसङ्गात् । गजादिभ्यः कीटादिशरीरप्रवेशे तु तादृशस्संकोचः । मनसस्तु परमाणुत्वेऽपि सद्वारकविषयसंबन्धसिद्धरविरोधः । तत्र 'युगपत् ज्ञानानुत्पत्ति आनन्ददायिनी गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ इति स्मृतिः । सर्वोपकरणाधिष्ठातृत्वाज्जीवोऽत्रेश्वरः । ननु ‘अणवश्च' इति, सूत्रस्वारस्यात् मध्यमपरिमाण (त्वे)साधकाभावादणुत्वमित्यत्राह—तथा सतीति । ननु अधिष्ठानस्यानेकत्वे चक्षुश्श्रोत्रयोरप्यनेकत्वमस्त्वित्यत्रहस्पर्शनरसनयोश्चेति । जीववदणुत्वा (मध्यमपरिमाणान)ङ्गीकारे गौरवदोषं चाह --सिद्धेऽपीति । अणुत्वपक्षे दूरस्थवस्तु(दूरस्थद्रव्यशब्द) ग्रहार्थं व्यापिस्पर्शरसग्रहार्थं च संकोचविकासादिरूप(साई) वृत्तिसाधकानामिन्द्रियाणां प्रचयः संघातो । वाच्यः ; तथा च अणुरूपोन्द्रयाणि तेषामणूनां विकासासंभवाद्विकासवृत्तिमद्दव्यं च किञ्चित् संघीभावार्थ (संघीभूतं) चक्षुरादीनामेकस्मन्नेव शरीरे बाहुल्यं च कल्प्यमिति गौरवम् । (इन्द्रियाणां) मध्यमपरिमाणत्वे (तु) तेषामेव तादृशवृत्तिविशेषोऽङ्गीकर्तुं शक्य इति(विशेषार्हत्वात् )लाधवमिति भावः । अन्यथा-परमाणुत्वाङ्गीकारे । मनसस्त्विति-अपिशब्देन इन्द्रियत्वसाधम्र्येण मध्यमपरि - -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy