________________
सरः
मनोविभुत्वनिरासः इन्द्रियसौक्ष्म्यमानं तद्विभुत्वनिरासश्च
467
तत्वमुक्ताकलापः सूक्ष्माण्येकादशाक्षाण्यपि न यदि कथं देहतो
सर्वार्थसिद्धिः सूत्राभिप्रेतं अविभुत्वमातिष्ठते-सूक्ष्माणीति । विपक्षे बाध(ध)वदबेवात्र प्रमाणमाह-न यदीति। परोक्तानुमानानांच विपक्षे दण्डश्च नास्ति; सर्वत्र कार्योपलब्धेरिन्द्रियान्तराणामिव संचारादप्युपपत्तेः। 'तमुत्क्रामन्तं ' 'शरीरं यदवामोति' इति श्रुतिस्मृतिसं
आनन्ददायिनी मनसो विभुत्वे सूत्रविरोधमप्याह-तदिहेति । प्रमाणमाहेति । अविभूनीन्द्रियाणि क्रियावत्त्वात् संमतवदित्यनुमानं प्रमाणमित्यर्थः । नचासिद्धिः निष्क्रमणादिमत्त्वश्रवणादिति भावः । सर्वत्र कार्यापलब्ध्यनुपपत्तिश्च न विपक्षदण्ड इत्याह-सर्वत्र कार्योपलब्धेरिति । देवतियङ्मनुप्यस्थावरे(वरशरीरे)षु एकस्यात्मनो मनसो विभुत्वाभावेऽप्युप्यु(पि चक्षुरादिवदु)पपत्ते(त्ति)रित्यर्थः । ननु सौभर्यादिशरीरेषु युगपत्कार्यं दृश्यते; द्वित्रिच्छि(भि)न्नगोधाशरीरेषु चलनं दृश्यते; तत् मनोणुत्वेनुपपन्नमिति चेत् ; मैवम् ; मनसो विभुत्वाभावेऽपि चक्षुरादिवदु(रादेरिव सौभरिशरीरेष) पपत्तिः । द्वित्रिच्छि(भि)न्नगोधाशरीरेषु च मनोवैभवेऽपि क्षणान्तरे चलनाभावात् चलने प्राणसम्बन्धोऽप्यपेक्ष्यः । तथाच अणुत्वपक्षेऽपि स एवास्तु ! सर्वाङ्गीणसुखे च तत्तन्निमित्तविशेषः(पसंयोगः) प्रयोजक इति (व्यक्तमिति) भावः । इन्द्रियसञ्चारे प्रमाणमाह--तमुत्क्रामन्तमिति । 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूकामन्ति' इत्यादिश्रुतिः- - --------
शरीरं यदवानोति यच्चाप्युत्क्रामतीश्वरः ।
30*