SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ सरः] मुखभेदनिबन्धननित्यनिदर्शनेन च निर्हेतुकत्वत्वोद्यपारहारः 431 तत्वमुक्ताकलापः भवेन्नित्यता तुच्छता वा? कादाचित्कस्वभावाद्यदि न नियमनात् सर्वार्थसिद्धिः द्वितीये कथमतत्स्वभावः कारणसहस्रेणापि तत्स्वभावतां नेतुं शक्यः? स्वभावस्य च हेतुमत्त्वे निर्हेतुकमिति किञ्चिन्न स्यात् । अतो नित्यस्वभाववन्नियतकालस्वभावता स्यादिति शङ्कतेकादाचित्केति । कादाचित्कस्वभावत्वेऽपि हेत्वधीनतां तत एव नित्यस्वभाववैषम्यं चाभिप्रेत्याह-न नियमनादिति । न हि यतः कुतश्चिदनन्तरमनेन भवितव्यमिति कादाचित्कत्वं! अनियमादृष्टेः; अस्मादनन्तरमेवेदमिति व्यवस्थादृष्टरित्यर्थः । उक्तनियमानभ्युपगमे सर्वत्र सर्वदा सर्वतः कार्यं स्यादिति तर्कवाधं आनन्ददायिनी प्रसङ्गात् ; नचेष्टापत्तिः भवद्भिनित्यानित्यव्यवस्थाकरणादिति भावः । स्वभावत्वेऽपि कार्यम्य हेत्वधीनता दर्शनबलादभ्युपेयते न तु नित्यस्य ; तदभावात् ; अन्यथा कार्यस्य धूमादेर्यतः कुताश्चद्गर्दभादिजातीयादनन्तरमप्युपलब्धिरुत्पत्तिस्स्यात् । वयादिघटितसामग्रयनन्तरमपि कदाचिदनुपब्धिस्स्यात् ; नचेष्टापत्तिः; धूमादेवयाद्यनन्तरमेव नियतोपलम्भविरोधात् । तदर्थिनो नियमेन तत्रैव प्रवृत्तेः । स्वक्रियाव्याघातादेरपि प्रसङ्गान्नियतावधिकत्वमङ्गीकरणीयमित्याह---स्वभावत्वेऽपि इत्यादिना ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy