________________
सरः ]
कारणत्वस्य प्रागभावेनान्यथासिद्धिपरिहारः
429
तत्वमुक्ताकलापः
स्यात् भावोपष्टम्भशून्यो न खलु तदवधिं प्रागभासर्वार्थसिद्धिः
भावोपष्टम्भेति । भावान्तरमभाव इति स्थापयिष्यते । इह त्वपिना पक्षान्तरान्वारोहस्सूच्यते । अयं भावः - यदि कार्येण प्रागभाव एव केवलोऽपेक्षणीयः तद्वदेते (देव ते) नाप्यनादिना भाव्यं ; अतः प्रागवधिस्सन्नप्यभावस्तत्तद्भावशेखरित एव स्वात्मानमवधित्वेन नियच्छेदिति । नित्यस्वभाववत् कादाचित्कस्वभावस्यापि हेतु
आनन्ददायिनी
अन्यैः---भावरूपैः । भावान्तरमिति – तथाच प्रागभाव मात्र हेतुकत्वेऽपि भावरूपकारणजन्यत्वं सहेतुकत्वं सिद्धमिति भावः । अन्वारोहोऽङ्गीकारः । ननु भावोपष्टम्भ एव मास्तु मानाभावादित्यत्राह - अयं भाव इति । तद्वदेवेति ---- ननु जन्यत्वस्यानादित्वविरुद्धतया तयाप्यप्रागभावजन्यत्वस्यापि विरोधितया कथं ततोऽनादित्वसादित्वसाधनमिति चेन्न; कार्यं प्रागभावमात्रजन्यं चेत् प्रागभावाधिकरणक्षणोत्तरत्वाधिकरणक्षणवर्तिप्रागभावप्रतियोगि न स्यात् ; यत्त ( यद्य ) दधिकरणक्षणोत्तरत्वाधिकरणक्षणवर्तिप्रागभावप्रतियोगि तन्न तन्मात्रजन्यं यथा घटो दण्डमात्र - जन्यः इत्यापादनेनानादित्वासिद्धेरिति भावः । अन्ये तु प्रागभावमात्रजन्यत्वे प्रागपि प्रागभावसत्त्वेन कार्योत्पत्तेर्विलम्बायोगत् अतीतका (लेऽपि)ले ( कार्यस्यावश्यकतया) कार्याभावस्यासंभवात् अनादित्व (मर्थात्प्राप्त) मित्याहुः । कार्यस्याद्यजातस्य पूर्वकालसत्त्वमेवानादित्वमित्यप्याहुः । तत्तद्भाव शेखरित इति - मूर्ति (मृत्त) त्वादिविशिष्टः । नित्यस्वभाववदिति — अन्यथा
1