________________
428
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः परिवेषादिदृष्टान्तेन नान्यत्र हेत्वभावश्शक्योऽनुमातुम् । अनिश्चितसाध्यस्य दृष्टान्तत्वायोगात् । निश्चितसाध्यविपर्ययस्य पक्षत्वाद्यति(क्षत्वाती)पातात् । निश्चितानेदर्शनादनिश्चितानुमानं युक्तमेव । न च त्वद्विवादमात्रेण घटादिषु सर्वलोक(संमतः)सिद्धः कार्यकारणभावस्संदिह्यते । एतेन 'अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात्' इत्यादि च प्रत्युक्तम् । अस्तु हेतुनिरपेक्षो नियतकालः प्रागभाव एव कार्यस्य पूर्वावधिः; स हि स्वभावविरुद्धतया कार्यकालमनश्नुवानस्तत्पूर्व एवेति सिद्धं, अतः किमन्यैरित्यत्राह
आनन्ददायिनी विपरिवर्तप्रसङ्ग पारहरति-अनिश्चितेति । निश्चितसाध्यविपर्ययस्येतिननु घटादावपि मृदादेर्यदृच्छासिद्धत्वमुक्तमिति चेत् ; मैवम् ; परिवेषादौ कारणाभावनिश्चये हि तद्व्याप्तया घटादावपि मृदादेर्यदृच्छासिद्धता । परिवेषादौ संदेहेन तबलाद्यदृच्छासिद्धत्वकल्पनायोगात् । तथाच घटादौ सकारणकत्वव्याप्तिग्रहस्संभवत्येव । परिवेषादौ तत्संदेहश्च व्यभिचारसंदेहतया न प्रतिबन्धक इति साध्यविपर्ययनिश्चयात् न पक्षत्वमिति भावः । विपरिवर्तप्रसङ्गं परिहरति-एतेनति। निश्चितसाध्यदृष्टान्तेन (तत्रापि) कारणविशेषानुमानसंभवादिति भावः । नन्वन्तु पूर्वावध्यनुमानम् । तथाऽपि प्रागभाव एव पूर्वावधिः कारणमस्तु । न च प्रागभावस्यपि यत्कारणं तदेव कारणम(तदेवावधिर)स्तु, न तु प्रागभावः, तद्धेतोरेवेति न्यायादिति वाच्यं ; तस्य हेतुनिरपेक्षत्वात् । तथाच भाव रूपकारणनिरपेक्षत्वमेव निर्हेतुकत्वमित्या(मस्त्वित्या)शङ्कते---अस्तु हेतुनिरपेक्ष इति । स्वभावविरुद्धतया-भावाभावयोः स्वरूपेण विरुद्धतया । तत्पूर्व एव–अतः किमन्यैरिति सिद्धमित्यत्रा(मित्याहेत्य)न्वयः ।