SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सरः] हेतुत्वस्य सत्त्वघटितत्वे दूषपरिहारः 421 सर्वार्थसिद्धिः 1 * प्राकालनियतत्वेन कारणं प्रमितं न वा? । आनन्ददायिनी माध्यमिकमतस्थत्वं माध्यमिकमतानुसरणात् । यद्यपि खण्डने __ अन्तर्भूतबहिर्भूतसत्त्वासत्त्वकथा वृथा ! । इति किञ्चिद्विकृतं पठ्यते ; तथाऽपि उत्तरत्र अन्तर्भावितेति तद्गन्थोपादानात् लेखकाधीन तद्वैषम्यमिति केचिदाहुः । अन्येतुमाध्यमिकमतस्थः खण्डनकार उच्यते । उत्तरत्रान्यदपीति खण्डनग्र भावप्रकाशः एवं परमंतभङ्गेऽपीति भावेन प्रकृते दूषणं संगृह्णाति * प्राक्कालनियतत्वेनेति श्लोकेन । तदेव-प्रमितत्वमेव । तस्यकारणस्य सत्त्वम् । ननु अबाधितविषयकज्ञानं प्रमा। तत्र कारणस्य त्रिचतुरकक्ष्यास्वबाध्यत्वमस्माकमपीष्टम् । कालत्रयाबाध्यत्वं तु न ज्ञातुमर्हमिति चेत् ; अत्र तत्वटीकावाक्यमुत्तरं ---' सर्वदा सर्वेषामबाधितत्वं दुज्ञानमिति चेत् , ब्रह्मणि कस्समाश्वासः' इत्यादि । ननु 'स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वं, इत्यद्वैतसिद्धावुक्तं ; अतो न ब्रह्मसत्त्वानुपपत्तिरिति चेत् ; अत्रोक्तं शतदूषण्यामाचार्यः सन् घट इति प्रत्यक्षस्य घटविषयकत्वस्थापनावसरे—'अतस्सच्छब्दार्थः मस्वरूपं चेत् घटशब्दार्थोऽपि स्वरूपमेव' इत्यादि। सिद्धान्ते जात्यनङ्गीकारेण सत्त्वं जडस्वरूपभपि भवितुमर्हत्येवेति को दोष इति भावः । आचार्यपादानामाचार्यैः तन्मातुलैर्वादिहंसाम्बुवाहायैायकुालेशेऽप्युक्त चतुर्थे परिच्छेदे ... ' स्वरूपमेव हि भावानां सत्पदार्थस्संस्थानमात्रमिति स्थितमन्यत्र' इति । श्रीभाप्यकृतां परमगुरुभिः भगवद्यामुनमुनिभिरपि संवित्सिद्धौ ब्रह्मप्रतिबन्दिमुक्ता अनन्तरमेवमुक्तं--
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy