________________
420
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
हेतुतत्ववहिर्भूतसत्त्वासत्त्वकथा वृथा ||
इति : तत्रोच्यते
[जडद्रव्य
आनन्ददायिनी
र्गतसत्त्वासत्त्वविचारो व्यर्थ इति माध्यमिकमतस्थो (मतैकदेश्यु) क्तं दुरुक्तमिति प्रसङ्गाद्दषयितुमनुभाषते - यदत्र माध्यमिकमत स्थैरिति इत्याहुः । अस्मिन् पक्षे माध्यमिकग्रन्थ एवं किञ्चिद्विषमं खण्डनेनानूदित इति ध्येयं ।
भावप्रकाशः
खण्डने एव ' कथंपुनरसतः कारणत्वमवसेयं प्राक्सत्त्वनियमस्य विशेषणस्यानभ्युपगमात् असत्त्वस्याविशेषात् इति चेन्न; इदमस्मा? - नियतं प्राक्सदिति बुद्ध्या विशेषात्, इत्यादिना इयं कारिका विस्तरेण विवृता । तत्र कालान्तरसंबन्धिन्यास्सत्ताया विशिष्टव्यवहारप्रवृत्तिसमयेऽसत्त्वेऽपि व्यवहारोपपत्तिरतीतादेर्ज्ञानविषयत्वोपपादनावसरे वक्ष्यमाणदिशा सुलभा । भवद्भिरपि ' तथाऽपि कालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्च व्यवच्छिन्नं तद्विज्ञानेन स्वभावबलात् स विशेषणत्वेनोपादीयते न त्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतो विशेषणतश्च व्यवच्छिन्नतयाऽनङ्गीकारात् कुत्र स्वभावतो विज्ञानं संबन्धि निरूप्येत ' इत्यादिना साधिता ||
सत्या चेत्संवृतिः केयं ? मृषा चेत्सत्यता कुतः । सत्यत्वं न तु सामान्यं मृषार्थपरमार्थयो |
इत्यादिना संवृतिनिराकर्ता भट्टकुमारिलो भवदीयप्रतिवचनक्लेशं निरर्थकमाधत्ते । संवृत्तिसत्यव्यावहारिकसत्यशब्दौ न विवक्षितसाधकौ ।
(2.12.