SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 400 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः बाधादेर्दर्शितत्वात् अपिच दृढमिते सान्वयेऽस्मिन् घटादौ सर्वार्थसिद्धिः यो विनाशस्स निरन्वयः यथाऽन्त्यदीपस्य ; अस्ति च विनाशो जातानां; अतस्सोऽपि निरन्वय इति निरन्वयध्वंसक्लप्तिने शक्या। तदुपपादयति-बाधादरिति । प्रत्यभिज्ञाबाधस्य प्रवृत्तयाद्यनुपपत्तीनां च दार्शितत्वाद्विपरिवर्तश्च युक्त इत्याहअपिचेति । अन्त्यदीपविनाशस्सान्वयः विनाशत्वात् पटादिविनाशवत् । साध्यविकलो दृष्टान्त इति चेन्न; संघातांशानां वा गन्धादिधर्माणां वा श्यामरक्तादिधर्मिणां वा यथासंभवमनुवृत्ते आनन्ददायिनी वन्त इति शेषः । तदुक्तप्रयोगं दर्शयति—यो विनाश इति । प्रत्यभिज्ञाबाधस्येत्यादि-यद्यपि न निरन्वयविनाशसाधने प्रत्यभिज्ञाबाधादि. दर्शितः तथाऽपि निरन्वयविनाशसाधनस्य क्षणिकत्वसाधनार्थत्वात् तत्र बाधादिर्दर्शित इति भावः । ननु माभूत् क्षणिकत्वसाधनार्थता ; निरन्वयविनाशमानं साध्यतामिति चेन्नः ; घटादिनाशस्थले कपालमालाद्यनुवृत्तिदर्शनात्तथाऽपि बाध एव । अत एव बाधादोरति सामान्योक्तिरिति ध्येयम् । प्रवृत्त्याद्यनुपपत्तिश्च आत्मनो विनाशित्वादिति भावः । विपरिवर्तश्चेति । प्रत्युत अन्त्यदीपविनाशस्थल एव सान्वयनाशसाधनं स्यादित्यर्थः । गन्धादीति-आदिशब्देन रसादिगुह्यते ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy