SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 398 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थासद्धिः ' द्वयोरयुगपदृष्टिः युगपञ्च यथायथम् । अशक्यापह्नवा तस्मात् अस्मदुक्तैव पद्धतिः ॥ इह च प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधयोः निरन्वयविनाशत्वे परोक्तं आनन्ददायिनी त्पन्नानां प्रागभावचरमकारणादीनां क्षणोपाधित्वं न कस्यापि क्षणिकत्वमित्येतदभिप्रेत्येत्यर्थः । ननु क्रमवन्तौ पदार्थो न समानकालिको भिन्नकालिकत्वात् संप्रतिपन्नवत् । तथाच नैककालिकतया क्षणोपाधित्वमित्यत आह—द्वयोरिति । अयुगपत्-भिन्नकाले । युगपत् समानकाले । यथायथमिति-येषां येन प्रकारेण न्यूनाधिकभावरूपेण संभवति तेन प्रकारेण दर्शनादनुमानस्य बाध इति भावः । यथाशब्दः प्रथमः पदार्थानतिवृत्तिवचनः । द्वितीयः प्रकारवचनः 'यथाऽसादृश्ये' इत्यव्ययीभावः । क्षणिकत्वानुमानात्पूर्वं त्वदुक्तस्यासंभवान्मदुक्त एव क्षणोपाधिः स्वीकार्य इत्या (त्यत आ)ह-तस्मादिति । नन्वनुमानान्तरं मदुक्तमस्त्विति चेत् ; न; व्याप्तिग्राहकप्रमाणाभावेन अनुमानप्रवृत्तरेवासंभवादिति भावः ॥ ३० ॥ प्रसङ्गसङ्गतिमाह-इह चेति । क्षणिकत्वसाधने बाधकपरिहारं परोक्तं दूषयति-इहेति इति केचिदाहुः । प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधयोरिति —निरन्वयविनाशः प्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधः सान्वयनाश इत्यर्थः । मुद्रादिजन्यः प्रत्यक्षसिद्धो घटादेर्नाशः प्रतिसंख्यानिरोधः अस्फुटरूपदीपादिनाशोऽप्रतिसंख्यानिरोध इत्याहुः। अक्षणविनाश इति केचित् । इह-जगति। विप्रतिपत्ताविति शेषः । ननु क्षणिकत्वसा
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy