________________
सरः]स्वमते व्याप्यत्वासिद्धे. रन्याथासिद्धेश्च साधकबाधकतौंपरदृष्टान्तासिाद्धश्च 391
तत्वमक्ताकलापः दृष्टान्तहानिः स्थिर इति विदितो यत् क्षणस्याप्युपाधिः। सामग्री कार्यशून्या क्षणः इयमपि
सर्वार्थसिद्धिः सन्ततिकल्पनम् । तस्य प्रवृत्तिविज्ञानेन सह सर्वप्रकारसम्बन्धायोगादिति । अथ क्षणोपाधिवदित्युक्तं प्रतिवक्ति–दृष्टान्तहानिरिति । अक्षणिकत्वे कथं क्षणोपाधिरित्यत्र गूढाभिप्राय आहसामग्रीति । कार्यशून्या–कार्यप्रागभावसमन्वितेत्यर्थः। क्षणःक्षणोपाधिरिति यावत् । तथाऽपि तस्य क्षणिकत्वं न प्रतिक्षिप्तमित्यत्राह–इयमपीति । ननु हेतूनां सङ्घोऽपि हेत्वनतिरिक्तश्चेत् तेषां भवत्पक्षे स्थिरत्वात् न क्षणोपाधित्वं । अति
आनन्ददायिनी क्रियते तस्य चेत् क्षणिकत्वमभ्युपैषि तदा प्रवृत्तिविज्ञानेन सम्बन्धाभावान्नियमासिद्धेस्सर्वस्य प्रवृत्त्यप्रवृत्तिप्रसङ्गतादवस्थ्यात्तदङ्गीकारो व्यर्थ इत्यर्थः । ननु जन्यजनकभावसम्बन्धान्नियमोऽस्तु इत्यत्राह -- सर्वप्रकारेति । इन्द्रियसम्प्रयोगजन्ये ज्ञाने आलयविज्ञानस्याश्रयतया जनकत्वं वाच्यम् ; तच्च क्षणिकत्वे न सम्भवति; ततोऽतिरिक्तश्च सम्बन्धोऽनतिप्रसक्तो दुर्वच इति सर्वप्रकारेणापीत्युक्तमिति भावः । ननु कार्यशून्या सामग्री क्षणोपाधिश्चेत् सामग्रयाः क्षणिकत्वमावश्यकं; अन्यथा क्षणोपाधित्वायोगादिति शङ्कायास्तादवस्थ्यादिति कथं दृष्टान्तहान्युपपादनमित्यत्राह—गूढाभिप्राय इति । गूढाभिप्रायमेवावतारिकामुखेन व्यनक्ति--तथाऽपीत्यादिना । अभिसन्धि प्रकाशयति