________________
390
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जढद्रव्य
सर्वार्थसिद्धिः तत्र साध्यवैकल्यं च घटादीन्निदर्शयद्भिः युष्माभिरिव क्रमात्प्रशमनीयम् । अस्ति च सोऽहमिति प्रत्यभिज्ञयास्माकं तत्सिद्धिः। आलयविज्ञानसन्ततिविषयेयमिति चेत् । इदमपि परिभाषामानं; प्रमाणाभावात् । 'नान्यदृष्टं स्मरत्यन्यः' इात परिभाषाया निर्बाधत्वाच्च । '* निरर्थकं चेदमालयविज्ञान
आनन्ददायिनी परिहरति-घटादीनिति । प्रशमनप्रकारमाह-अस्ति चेति । दीपादिविषयप्रत्यभिज्ञावदन्यथासिद्धिमाशकते-आलयेति । आलयः--प्रवृत्तिविज्ञानाश्रयः । प्रवृत्तिविज्ञान-प्रवर्तकं घटादिविज्ञानं । विज्ञानं-- ज्ञानस्वरूपमात्मेति सौगतपरिभाषा । तथाच आलयविज्ञानसन्ततिविषयतया न स्थिरत्वसाधिकेति न दृष्टान्तासिद्धिरित्यर्थः । प्रमाणाभावादिति-क्षणिकत्वसाधकानुमानात्प्रागालयविज्ञानसन्ततिकल्पने प्रमाणाभावान्निष्प्रतिपक्षा प्रत्यभिज्ञा स्थिरत्वं साधयेदिति भावः । प्रत्यभिज्ञायाः स्थिरविषयत्वेऽनुकूलतर्कमप्याह-नान्यदृष्टमिति । परिभाषाव्याप्तिः । तथाच नातिप्रसङ्ग इति भावः । आलयविज्ञानस्यास्थिरत्वे बाधकतान्तरमप्याह-निरर्थक चेदमिति । आलयविज्ञानानङ्गीकारे प्रवृत्तिविज्ञानस्य किञ्चित्सम्बन्धित्वाभावात्प्रवृत्तिः कस्यापि न स्यात् सर्वस्य वा स्यात् अविशेषात् । तदङ्गीकारे तु यदालयविज्ञानसम्बन्धि प्रवृत्तिविज्ञानं तस्यैव प्रवृत्तिं जनयतीति नियमस्सिध्यतीति तदङ्गी
भावप्रकाशः * निरर्थकमिति-एतच्च जीवसरे विवेचयिष्यते।