SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सरः ] क्षणभङ्गवादे संतानैक्यव्यवस्थानुपपत्तिः 381 तत्वमुक्ताकलापः निजफलनियतिर्वासनानां च न स्यात् कार्पासे रक्ततादि क्रमविपरिणमत्संस्कृत द्रव्य तस्स्यात् ॥ २९ सर्वार्थसिद्धिः स्यादिति । यदप्याहु: यस्स्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ इति; कर्मवासनेत्यनुभववासनाया उपलक्षणं । तदपि दूषयतिनिजफलनियतिर्वासनानां च न स्यादिति । सन्तानैक्ये सिद्धे हि यस्मिन् तस्मिन्निति निर्देशस्स्यादिति भावः । दृष्टान्तस्तर्हि कथमित्यत्राह — कार्पास इति । रञ्जकद्रव्यविशेष संस्कृतबीजावयवानुवृच्या कार्यस्रोतोविशेषनियमे यथादर्शनं तत्र आनन्ददायिनी सर्वदेशक्षणसन्तानजनकत्वात् सर्वे सर्व (स्यापि )स्य सन्ताना इति पूर्वव(त) देतद्देश सन्तानैक्यनियमो नास्तीति भावः । ननु क्षणिकत्वपक्षे पाकेषुविक्षेपादौ वासनाश्रयस्य नाशादुत्तरो (नाशात्तदुत्तरक्षणेषु विक्लत्तिदेशान्तरगमनहेतुक्रिया न स्यादित्याशङ्कय सन्तानैक्यान्न दोष इति सिद्धान्तदीपिकोक्तमनुवदति-यदप्याहुरिति । कर्मवासना - वेगादिसंस्कारः । यदा पाकादिक्रियाशक्तिः तत्रैव तण्डुलादिसन्ताने विक्लत्त्यादिक्रियां जनयतत्यिर्थः । रञ्जकद्रव्येति - स्थिरवादे कार्पाससन्तानव्यवस्थासम्भवायुज्यते; क्षणिकवादे तन्नियमो न स्यादिति दृष्टान्तासिद्धिश्चेति भावः ।। २९ ।।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy