________________
380
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः क्षणानाम् । सन्तानक्यव्यवस्था
सर्वार्थसिद्धिः *अतीन्द्रियस्य (तु) तस्यादर्शनात् । दृश्यस्य तु वह्निधूमत्वादेरतिप्रसङ्गित्वात् । न द्वितीयः; यस्मिन् देशादौ यद्वर्तते तस्मिन् जायमानस्य तत्कारणमिति नियमो न सम्भवति ; कार्यक्षणस्य कारणदेशादिवर्तित्वे कारणदेशादेः क्षणद्वयापत्तेः। तथाचानन्तरक्षणयोगेऽपि को बाधः? अतः स्थिरदेशादिकमनभ्युपगच्छतः तत्प्रयुक्तनियमायोगात् अतिप्रसङ्गस्तदवस्थ एव । ननु यद्देशादिक्षणवर्ती कारणक्षणः तत्कार्यदेशादिक्षणे स्वकार्यमारभत इति नियम इति चेन्न; देशादिक्षणद्वयेऽपि कार्यकारणव्यवस्थाया दुःस्थत्वात् । त(देत)दभिप्रेत्याह-सन्तानैक्यव्यवस्था न
आनन्ददायिनी एव पूर्वापरकालवर्तित्व(त्वादि)रूपः । तस्येति-विशेषस्य कार्यकारणयोरदर्शनादित्यर्थः । अतिप्रसङ्गित्वादिति-तेन रूपेण पूर्वक्षणापेक्षया पूर्वापरभावित्वादित्यर्थः । तदिति -तद्देशे तत्पूर्ववर्तीत्यर्थः । क्षणद्वयापत्तेःकार्यकारणद्वयाधिकरणक्षणद्वयकालवर्तित्वापत्तरित्यर्थः । तथाचेति--
एतावन्तं स्थितं कालं कः पश्चान्नाशयिष्यति । इति न्यायादिति भावः । ननु कार्यकारणयोरेकदेशवर्तित्वं मास्तु ; अपि तु एकदेशसन्तानवर्तित्वं ; तथा च नातिप्रसङ्ग इति शङ्कतेनन्विति । देशादीति-तथाच पूर्वदेशलक्षणस्य (स्व) पश्चाद्भावि
भावप्रकाशः 1*अन्द्रियस्य त्विति-एतेन शक्तयभिधानमप्याकञ्चित्करमिति व्यञ्जि