________________
378
सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाधौ सर्वे पूर्वे भवेयुस्तदुपरिभवतां कारणानि
सर्वार्थसिद्धिः तज्जन्यत्वं हि तद्धेतुकत्वं । तेन कथं हेतुनरपेक्ष्यसाधनम् ? हेत्वन्तरनैरपेक्ष्यमपि दुर्वचमित्युक्तं । अतः क्रमभाविसहकारिविशेषात् कार्यान्तरमिव खनाशमपि स्वयमुत्पादयतु नाम! न ततः क्षणिकत्वं सिद्धयेदिति । वाधश्वामीषां प्रागुक्तप्रत्यभिज्ञया स्पष्टः । आदिशब्दः प्रदर्शितयोरपसिद्धान्तप्रतिज्ञाविरोधयोस्सङ्ग्रहार्थः । प्रतिकूलतकप्रतिहतिमप्याह-कालानन्तर्येति ।
आनन्ददायिनी हेतुसाध्ययो (साध्येनहेतो) विरुद्धत्वादित्यर्थः । यद्वा प्रतिज्ञावाक्यस्य हेतुवाक्येन विरुद्धत्वादित्यर्थः । विरोधपरिहारमाशङ्कय परिहरतिहेत्वन्तरेति । तद्वदेव सहकारिणामित्यर्थः । ननु सहकारिसापेक्षत्वेऽप्युत्पत्त्यनन्तरमेव ध्वंससम्भवात् क्षणिकत्वं स्यादित्यत्राह-क्रमभावीति । ध्वंसजनने सहकारिणामाद्यक्षण एव भावित्वमित्यत्र नियामकाभावात् ; यदा कदाचित्सहकारिलाभे प्रतियोगिनो ध्वंसजनकत्वेऽपि न क्षणिकत्वसिद्धिरित्यर्थः ॥ २८ ॥ पूर्वशेषत्वान्न पृथक्संगतिरित्यभिप्रायेणाह–प्रतिकूलेति । ननु
भावप्रकाशः क्षणभङ्गपक्षे कुमारिलोक्तदूषणान्युद्धर्तुकामेन शान्तरक्षितेन तत्वसंग्रहे इत्थमुक्तम् -