SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सरः] तृतीयतुरीयकपञ्चमषष्ठकल्पानां दूषणम् 377 सर्वार्थसिद्धिः भावस्वरूपापेक्षया त्वानन्तर्यनियमे भाव एव हेतुस्स्यादिति कथं हेतुनरपेक्ष्यं ? तदतिरिक्तनैरपेक्ष्यं विवक्षितमिति चेन्न; तद्वदेव सहकारिणामप्यवर्जनीयत्वादिति । पञ्चमे त्वसिद्धिाघातश्च। ननु कथं ध्रुवभाविशब्देन तत्त्वविवक्षा शङ्कयते ? इत्थम् ; यद्यतो भिद्यते न तत्तस्य ध्वंसः यथा रूपस्य रसः । ध्वंसस्तु कस्यचिदेव भवतीति तदात्मकः। अतः स्वोत्पत्तावेव स्वात्मनि ध्वंसे सन्निहिते कथं क्षणान्तरं प्राप्नुयादिति ? तत्रेदं ब्रूमः; ततो भिन्नस्यापि तद्धसत्वं यथा दर्शनं स्यात् । अन्यथा भिन्नस्य भिन्नकालस्य च कारणत्वादिकमपि हीयेत अविशेषात् । स्वात्मन एव स्वनाशात्मकत्वे पश्चादिव स्वकालेऽपि स्वाभावसिद्धः स एव सर्वापह्नवस्स्यादिति । तज्जन्यत्वे हेतौ प्रतिज्ञाविरोधः । आनन्ददायिनी भाव एवेति-अनन्यथासिद्धनियतपूर्ववृत्तित्वादिति भावः । कथमितितथाच बाध इति भावः । तद्वदेवेति-प्रतियोगिन इव मुद्रादेरप्यन्वयव्यतिरेकसत्त्वादिति भावः । पञ्चम इति-ध्वंसप्रतियोगिनोरेक्यानभ्युपगमात् भावाभावयोः परस्परविरोधिनोरैक्यस्य विरुद्धत्वादित्यर्थः ; अन्यथा भावस्सर्वदा स्यान्न स्याद्वेति न क्षणिकत्वासद्धिरिति भावः । नन्वस्याः कोटेरुत्थितिरेव न सम्भवति ; शब्दस्य तद्बोधनासामर्थ्यात् । तथाच असम्भवाद्विकल्पदोषः । तथा भावानां सहेतुकत्वात् तद(भेदे अ) हेतुकत्वं वा कथं ? ततः क्षणिकत्वं वा कथं सिध्येत् ? इति शङ्कामाशङ्कय परिहरति-नन्वित्यादिना ! अन्यथेति-- पूर्वक्षणानामप्युत्तरक्षणहेतुत्वं न स्यादित्यर्थः । प्रतिज्ञाविरोध इति----
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy