________________
सरः]
हेतुस्वरूपविकल्पः प्रथमद्वितीयकल्पदूषणंच
373
सर्वार्थसिद्धिः सामग्रीप्रवाहवशात् ध्रुवं भविष्यद्भिः पत्रपुष्पादिभिः घटादीनां कपालादिभिरप्यनैकान्त्यं ; सर्वत्र चैकसन्तानोत्तरक्षणैः । न हि ते तन्निरपेक्षाः! तथा सति प्रागेवोपनिपाते कथं तत्र सन्तानत्वमपि ? पूर्वक्षणानामर्थक्रियाविरहादसत्त्वं च स्यात् ; चार्वाकवा(दः)दश्च। '* द्वितीये तु यद्यस्यानुत्पन्नमनुबन्धि न तद्धत्वपेक्षं यथा गोरश्वापोह इति स्यात् । तथा च हेत्वसिद्धिः प्रतियोगिवत् खोचितहेतुजन्यत्वात् । मुद्गरादयोऽपि सभागसन्तानमात्रार
आनन्ददायिनी सर्वत्रचेति-- तत्तदुत्तरक्षणानां ध्रुवभावित्वात् पूर्वपूर्वक्षणहेतुकत्वाचेति भावः । क्षणः---स्वलक्षणं वस्तु । तथासतीति--तथाच सर्वेषामेकक्षणोत्पत्तिसमय एव विनिगम(का)नाभावेनोत्पत्तौ पूर्वापरभावापन्नसंतानसिद्धिर्न स्यादित्यर्थः । असत्त्वं च स्यादिति---उत्तरोत्तरेषां क्षणानां पूर्वपूर्वजन्यत्वाभावेन अर्थक्रियाकारित्वाभावादिति भावः । चार्वाकवादः-नि: (अहे) तुक(त्वं।)त्ववादः । द्वितीयेत्विति-जननविधुरतेत्यस्मिन् पक्षे इत्यर्थः । हेत्वसिद्धिमेवोपपादयति–प्रतियोगिवदिति । स्वोचितहेतवो मुद्रादयः । असि(द्धिं परिहरति)द्धिपरिहारं शङ्कते—मुद्गरादय इति । सभागः--
भावप्रकाशः 1 * द्वितीये तु इति-धर्मधर्मिणोस्संबन्धो व्यवस्थापयिष्यते । अतः
सर्वत्रैवानपेक्षाश्च विनाशे-जन्मिनोऽखिलाः । सर्वथा नाशहेतूनां तत्राकिञ्चित्करत्वतः ॥
३५७