________________
372
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः जन्मन्येवोपरोधात क्षणिकमिह जगत्सर्वमित्यप्यसारम्। लिङ्ग ह्येष्यत्त्वमात्रं जननविधुरता तत्क्षणानक्षणत्वे तत्त्वं तजन्यता वा तदिदमनियमासिद्धि. बाधादिदृष्यम् ॥ २८॥
सर्वार्थसिद्धिः असारं-न्याय्यादन्यदित्यर्थः। तत्र हेतुं विकल्पयति-लिङ्गमिति । एवं विकल्पिते यथासम्भवं दोषानाह-तदिदमिति । तथाहितत्राद्ये तावत् यत् यस्य ध्रुवं भविष्यति न तत्तस्य हेतुसापेक्ष नाशश्च जातानां ध्रुवभावीत्युक्तं स्यात् । तदा कस्यचिदकुरस्य
आनन्ददायिनी मूलस्यायमर्थः-उत्पन्नानां भावानां विनाशस्य ध्रुवभवितृतया हेत्वपेक्षारहितत्वात् जन्मन्येवोपरोधात्सम्बन्धात् सर्वं जगत् क्षणिकमिति । तत्र किं ध्रुवभवितृत्वम् ? इति विकल्पयती(विकल्पपरत्वमभिप्रे)त्याहतत्रेति । एष्यत्त्वमवश्यम्भावित्वमात्रं । जननविधुरता-उत्पत्त्यभावः । तत्क्षणत्वं-भावकालत्वं । अनन्तरक्षणवर्तित्वमनुक्षणत्वं । तत्त्वंप्रतियोगिस्वरूपत्वं । तजन्यत्वं--प्रतियोगिजन्यत्वं । ध्रुवभवितृ(ध्रुवभावित्व) शब्देन एतेषां लाभो यथा संभवति तथोत्तरत्र स्वयमेव दर्शयिष्यति । तेषां समुच्चित्य प्रत्येकम(प्रत्येकं प्राप्तय)भावादाहयथासंभवमिति । तत्र क्रमेण दूषणानि वक्तुं प्रतिजानीते-तथाहीति । अनियमो-व्याप्तयभावः । असिद्धिः हेत्वसिद्धिः। बाधः-साध्याभावनिश्चयः । कस्यचिदिति–व्यभिचारेण व्याप्तयभावादित्यर्थः ।
ना