SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 342 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे तत्वमुक्ताकलापः कृतितदितरयोः साह्यभेदेन सिद्धेः । [जडद्रव्य सर्वार्थसिद्धिः र्ययाभ्यां शक्तयशक्तिसिद्धिरिति चेन्न ; 'शक्तस्याऽपि करणाकरणयोः सहकारिसन्निध्यसन्निधिप्रयुक्तत्वात् । तदाह-कृतितदितरयोरिति । सायं-सहभावः कदाचित् पुष्कलैस्सहकारिभिस्साह्यं आनन्ददायिनी ― शक्तस्यापीति – करणाकरणयोः शक्तितदभावप्रयुक्तत्वाभावान्न शक्तयशक्तिरूपविरुद्धधर्माध्यासप्रसङ्ग इति भावः 1 सहशब्दस्य धर्म्यवाचकत्वात् तत्र भवप्रत्ययः कथमित्यत्राह साह्यमिति सहशब्दः सहितपरः ; तस्य भावस्साह्यं । यद्वा त्रैलोक्यादिवत् स्वार्थिकः । तदेवाह - कदाचिदिति । पुष्कल सहकारिसान्निध्य 1 भावप्रकाशः - व्यतिरेकसाधकमन्यत् प्रमाणं वक्तव्यम् !' इति 'शक्तस्यापीति–उक्तं च रत्नकीर्तिना –' शक्तोऽपि घटः क्रमि सहकार्यपेक्षया क्रमिकार्य करे - ष्यति । न चैतद्वक्तव्यं समर्थोऽर्थः स्वरूपेण करोति स्वरूपं च सर्वदाऽस्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यते इति ; सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोति ? सहकारिसाकल्यं हि सामर्थ्यम् ! तद्वैकल्यं चासामर्थ्यं । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः ; तस्य ताभ्यामन्यत्वात् । तस्मात् अर्थस्समर्थोऽपि स्यात् ; न चकरोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः' इति । * साह्यमिति । एतेनअथ नापेक्षते नित्यः प्रत्ययान् सहकारिणः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy