SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सरः] प्रत्यभिज्ञायाः स्थिरविषयत्वसाधकहेत्वसिद्धिशङ्का तत्परिहारश्च 341 तत्वमुक्ताकलापः नैकस्मिन् शक्त्यशक्ती सर्वार्थसिद्धिः विषयेत्यसिद्धं कुर्वदकुर्वत्क्षणयोश्शक्तयशक्तिभ्यां वैजात्यादित्यत्राह—कस्मिन्निति । कुर्वतोऽकुर्वतश्चैकत्वेऽङ्गीक्रियमाणेऽपि शक्तयशक्तिरूपविरुद्धधर्माध्यासो न स्यादित्यर्थः। '* शक्तश्चेत् कुर्यादेव; न करोति चेदं कुमूलनिहितं बीजमिति * प्रसङ्गतद्विप आनन्ददायिनी कुर्वदकुर्वदिति—कार्यजनने वर्तमानव्यापारवत्तदभाववद्दण्डादिक्षणयोवस्तुनोरित्यर्थः । शक्तयशक्ती-शक्तितदभावौ । ननु स्थायित्वपक्षेऽकुरोत्पादकमेव बीजं कुसूलस्थमिति प्रत्यभिज्ञया साधनीयं । तत्र अङ्कुरोत्पादनशक्तिश्चेत् कुर्यादेव ; न करोतीति (शक्तयभावः कुसूलस्थस्य केदारस्थस्य शक्तत्वं करणादिति) विरुद्धधर्माध्यास इति शङ्कते-शक्तश्चेदिति । भावप्रकाशः 1* शक्तश्चेदिति-सहकारिसापेक्षत्वे त्वशक्त एवेति भावः । *प्रसङ्गतद्विपर्ययाभ्यामिति-स्वभावहेतुः प्रसङ्गः । व्यापकानुपलब्धिस्तद्विपर्यय इति पूर्वमेवोक्तम् । एतौ चान्वयसाधकौ । विपर्यये बाधकप्रमाणं च व्यतिरेकसाधकं नात्रापेक्ष्यते अन्वयसिद्धयैव व्यतिरेकसंशयनिवृत्तेः । यथोक्तं क्षणभङ्गसिद्धौ रत्नकीर्तिना-'यथा विपर्यये बाधकप्रमाणबलात् नियमवति व्यतिरेके सिद्धे अन्वयविषयः संशयः पूर्व स्थितोऽपि पश्चात्परिगलति । ततोऽन्वयप्रसाधनार्थं न पृथक् साधनमुच्यते। तथा प्रसङ्गतद्विपर्ययहेतुद्वयबलतो नियमवत्यन्वये सिद्धे व्यतिरेकविषये पूर्व स्थितोऽपि संदेहः पश्चात्परिगलत्येव । न च
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy