________________
सरः] इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यं प्रामाण्योपपत्तिः स्मृतित्वापत्तिश्च 335
सर्वार्थसिद्धिः
भयजन्यसंस्कारसहकारादिति चेत्; समानमत्राऽपि । दृष्टत्वात्तथैव तत्रेति चेत्; अत्रापि तथैव । वेद्याकारैकदेशादुत्पन्नस्य प्रत्यक्षत्वे शुक्तिरजतधीरपि मानं स्यादिति चेन्न ; आरोपानारोपाभ्यां विशेषात् । किञ्च संस्कारोपनीतरजताद्यारोपे च इदं रजतमिति चाक्षुषबुद्धिरेका । न हि तत्र रजताद्बुद्धयुत्पत्तिः! तस्यासन्निहितत्वात् । अर्थजत्वेन त्वदुक्ताविसंवादित्वप्रसङ्गाच्च । इन्द्रियजन्यतया प्रत्यक्षत्ववत् संस्कारजन्यतया - स्मृतित्वमपि दुर्निवारमिति चेन्न तमेतमनुभवामि पश्यामीत्यादि आनन्ददायिनी
वेद्याकारो विषय इत्यर्थः । प्रत्यक्षत्वे – प्रत्यक्षप्रमात्वे । शुक्तिरजतेति—तस्या अपि वेद्याकारैकदेशेदमंशजन्यत्वादिति भावः । अर्थजन्यत्वाभावे किं प्रमात्वं न स्यादिति विवक्षितम् ? उत तदैक्यं न स्यादिति ? इति विकल्पमभिप्रेत्य आद्यं परिहरति-— आरोपेति । अर्थजत्वाभावेऽपि बाधितेतरविषयत्वेन अनुमितिवत् प्रामाण्यसम्भवादिति भावः । द्वितीयं परिहरति-- किञ्चेति । तथाच व्यभिचारादर्थ - जत्वं तदैक्यस्याप्रयोजकमित्यर्थः । तमेतमिति - संस्कारजन्यत्वं स्मृतित्वप्रयोजकं न भवतीत्यर्थः । नन्विन्द्रियस्येव संस्कारस्य प्राधान्यात् केवलस्मृतित्वमस्तु विनिगमकाभावात् इति शङ्कां बाचेन्द्रियसन्निकर्षनिरपेक्ष
।
भावप्रकाशः
शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् । भूतार्थभावनोद्भतेः प्रमाणं तेन संमतम् ॥ ३४४३ ॥