________________
334
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्गव्य
भावप्रकाशः संप्रत्यसत् तद्वत् पूर्वविनष्टज्ञानविषयत्वमाप संप्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितार्थग्राहित्वादस्फुटाभम् । अस्फुटाभत्वादेव च सविकल्पकम् । ततः स्फुटाभत्वान्निर्विकल्पकम् । प्रमाणशुद्धार्थवाहित्वाच्च संवादकम् । अतः प्रत्यक्षं इतरप्रत्यक्षवत्' इति व्याचख्यौ । तत्वसंग्रहे च योगिज्ञानं मानसमित्युक्तं---
चक्षुराद्यतिरिक्तं हि मनोऽस्माभिरपीष्यते ।
षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३१ ॥ इति । सर्वज्ञबुद्धिसाधनावसरे--
समस्तवस्तुसम्बन्धतत्वाभ्यासबलोद्भवम् । सार्वज्ञं मानसं ज्ञानं मानमेकं प्रकल्प्यते ॥ ३३८१ ॥ सिद्धं च मानसं ज्ञानं रूपाद्यनुभवात्मकम् । अविवादः परस्यापि वस्तुन्येतावति स्फुटः ॥ ३३८३ ॥ वर्ण्यते हि स्मृतिस्तेन रूपशब्दादिगोचरा ।
स्वप्ने च मानसं ज्ञानं सर्वार्थानुभवात्मकम् ॥ ३३८४ ॥ इत्यादि । अत्र पञ्चिका-यावता समस्तवस्तुगतानित्यत्वादिलक्षणा. शेषतत्वाभ्यासप्रकर्षपर्यन्तजेन मनोविज्ञानेन सर्वार्थगोचरेण स्फुटप्रतिभासाविसंवादित्वाभ्यां प्रत्यक्षतामुपगतेन युगपदशेषवस्तुग्रहणात्सर्वविदिष्टः' इत्यादि । एवं---
भूतार्थभावनोद्भूतं कल्पनाभ्रान्तिवर्जितम् । वक्ष्यामो योगिविज्ञानं साधनैर्विमलैरलम् ॥ १३४३ ॥ योगाभ्यासविशेषाच्च योगिनां मानसं तथा । ज्ञानं प्रकृष्टरूपं स्यादित्यत्रास्ति न बाधकम् ॥ ३४०७ ॥ सर्वधर्माश्च भाव्यन्ते दीर्घकालमनेकधा । शून्यानात्मादिरूपेण तात्विकेन महात्मभिः ॥ ३४४२ ।।