________________
324
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः * यत्सत् तत् क्षणिकं यथा जलधरः सन्तश्च भावाः'
भावप्रकाशः मिति न स्फुटमिति प्रकृतोपयोगि ज्ञानश्रीवाक्यमादत्ते '* यत्सत्तत् क्षणिकमित्यादि
यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा । नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेत्
द्वेधाऽपि क्षणभङ्गसन्ततिरतः साध्ये च विश्राम्यति ॥ इति पूर्ण श्लोकः ।
आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरूपिणी । ___ साधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोदिता ॥ घटापेक्षया जलधरे क्षणिकत्वं सुग्रहमित्यभिप्रेत्य दृष्टान्ततोक्तिः । यदि तत्राऽपि विप्रतिपत्तिः तदा प्रसङ्गतद्विपर्ययाभ्यां दृष्टान्ते क्षणिकत्वं साधनीयम् , तत्प्रकारः क्षणभङ्गसिद्धावुक्तः अत्र प्रयोगः–यत् यदा यज्जननव्यवहारयोग्यं तत् तदा तज्जनयत्येव ; यथा अन्त्या कारणसामग्री स्वकार्य। अतीतानागतक्षणभाविकार्यजननव्यवहारयोग्यश्वायं घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकालेऽपीति स्वभावहेतुप्रसङ्गः । यत् यदा यन्न करोति तत्तदा तत्र समर्थव्यवहारयोग्यं ; यथा शाल्यकुरमकुर्वन् कोद्रवः शाल्यकुरे । न करोति चैष घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्यमिति व्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम् । व्यापकानुपलब्धिः प्रसङ्गविपर्ययः इति । एवं नानाकालस्यैकस्य वस्तुनो वस्तुतोऽसंभवेऽप्यतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात्। द्विविधो हि प्रत्यक्षस्य विषयो ग्राह्योऽध्यवसेयश्च । सकलातद्रूपपरावृत्तं