________________
322
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
भावप्रकाशः प्रतीतिः! यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः । अवस्तुनस्तु सामर्थ्याभावाद्विकल्पमात्रमेव प्रतीतिः । वस्तुनो हि वस्तुबल भाविनी प्रतीतिः! यथा साक्षात्प्रत्यक्षं परम्परया तत्पृष्ठभावी विकल्पोऽनुमानं च' इति । तत्वसंग्रहव्याख्यायां पञ्चिकायामपि--(१३०६ श्लो) 'प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तवस्त्वाकारानुगमाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति अनलोऽयं नासौ कुसुमस्तबकादिरिति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धादविसंवादित्वेऽपि न प्रामाण्यमिष्टं । दृश्यविकल्प्ययोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावाात् ' इति । नन्वनधिगतार्थगन्तृत्वं तत् । तदुक्तं तत्वसंग्रहे
विज्ञातार्थाधिगन्तृत्वात् स्मार्तज्ञनसमं परम् । (१२९८) इति । तत्र पश्चिका—'यत् गृहीतग्राहि ज्ञानं न तत्प्रमाणं यथा स्मृतिः गृहीतग्राही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धि. रिति, इति चेत् ; न ; बौद्धमते स्वलक्षणस्यैव प्रत्यक्षविषयत्वेन तस्य विकल्पेऽभानेन तथोक्तयसंभवात् । अध्यवसेयं परिभाषामात्रासद्धं कंचन विषयं प्रकल्प्य विकल्पस्य यथाकथञ्चिदधिगतार्थगन्तृत्वाङ्गीकारेऽपि 'प्रत्यक्षेणैव शब्दादौ धर्मिणि गृहीतत्वादनित्यतादेः तत्रानुमानविकल्पः प्रवर्तमानः प्रमाणं न प्राप्नोति' इति पञ्चिकोक्त एव दोषः । 'न हि शब्दे धर्मिणि गृहीतेऽपि तदव्यतिरोक क्षणिकत्वमगृहीतमिति व्यवस्थाप्यते' (४५८) इति पश्चिकायामुक्तेः । 'प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं जनयति स एवांऽशो व्यवहारयोग्यो गृहीत इत्यभिधीयते । यत्र तु प्रान्तिनिमित्तवशात्समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहारायोग्यत्वात् गृहीतोऽप्यगृहीतप्रख्य इति तत्रानुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्तमानस्य प्रामाण्यं भवति न पुनः प्रत्यक्षानन्तरभाविविकल्पस्य।