SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सरः ] त्रिगुणपरीक्षायां क्षणभङ्गसाधनानुवादः भावप्रकाशः 321 इत्यत्रावस्तुनिर्भासस्यासंवादादिहेतुत्वाभिधानेन च अनुमानेन वस्तुधर्मस्य क्षणिकत्वस्य साधनोद्यमोऽनुचित इत्यपि वस्तुस्थैर्यमित्यनेन सूच्यते । यच्च रत्नकीर्तिना प्रथमक्षणभङ्गसिद्धौ - ' विकल्पेन यदुपनीयते तत्सर्वमवस्तु । ततश्च वस्त्वात्मके क्षणिकत्वे साध्ये अवस्तूपस्थापयन्ननुमानविकल्पो विरुद्धः' इत्याक्षिप्य ' अवस्तुनो वस्तुनो वा स्वाकारस्य ग्राह्यत्वेऽपि अध्यवसेय वस्त्वपेक्षयैव सर्वत्र प्रामाण्यप्रतिपादनात् वस्तुस्वभावस्यैव क्षणिकत्वस्य सिद्धिरिति व विरोधः ? यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अपि अन्यनिवृत्तौ न वस्तुनी स्वलक्षणावगाहित्वे अभिलापसंसर्गानुपपत्तोरिति चेत्; न; अध्यवसायस्वरूपापरिज्ञानात् । अगृहितेऽपि वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वं । अप्रतिमासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसयत्वं । एतच्चाध्यवसेयत्वं स्वलक्षणस्यैव युज्यते नान्यस्य अर्थ क्रियार्थित्वादर्थिप्रवृत्तेः । एवंाध्यवसाये स्वलक्षणस्यास्फुरणमेव । न च तस्यास्फुरणेऽपि सर्वत्राविशेषेण प्रवृत्त्याक्षेपप्रसङ्गः । प्रतिनियतसामग्री प्रसूतात् प्रतिनियतस्वाकारात् प्रतिनियतशक्तियोगात् प्रतिनियत एवातद्रपपरावृत्ते अप्रतीतेऽपि प्रवृत्तिसामर्थ्य - दर्शनात् । यथा सर्वस्यासत्त्वेऽपि बीजादङ्करस्यैवोत्पत्तिः दृष्टस्य नियतहेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात् । परं बाह्येनार्थेन सति प्रतिबन्धे प्रामाण्यमन्यथा त्वप्रामाण्यमिति विशेष : ' इति समाधानमुक्तं ; तत्रेदं विचारणीयम् - प्रामाण्यं कीदृशं ? इति अभिमतार्थक्रियासमर्थार्थप्रापणशक्तिमत्त्वं प्रामाण्यं सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः' इति न्यायबिन्दुपक्रमवाक्यव्याख्याने व्यक्तमेतत् । एवं तत्वसंग्रहादौ ; इति चेत् ; अस्य प्रत्यक्षपश्चाद्भाविविकल्पसाधारणस्य प्रत्यभिज्ञायामपि सत्त्वेन रनकीर्तिना तदप्रामाण्योक्तिरनुचिता । यथोक्तं तेनैव द्वितीयायां क्षणभङ्गसिद्धौ –— साक्षात्पारम्पर्येण वस्तुसामर्थ्यभाविनी हि वस्तु SARVARTHA.. 21 6
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy